वाचस्पत्यम्
वृहत्समन् is an alternate of बृहत्समन्. बृ(वृ)हत्समन् || न० नित्यक० । सामभेदे तच्च साम “त्वा- मिद्धि हवामहे” इत्यस्यामृचि गेयं तच्च तुलादानादि- पद्धतावस्माभिः १९१ । ९२ पृ० दर्शितम् । “वामदेव्यं बृ(वृ)हत्साम ज्येष्ठसाम रथन्तरम्” सामगद्वारपाल- पाठ्यतया विधानपारि० उक्तम् । “बृ(वृ)हत्साम तथा साम्नाम्” गीता । तच्च साम ब्रह्मप्रतिपादकमिति तद्भाष्यकारेणोक्तं समर्थितञ्चानन्दगिरिणा “इन्द्रः सर्वे- श्वरत्वेनानेन स्तूयते इति तस्य श्रैष्ठ्यमिति” ।