शब्दकल्पद्रुमः
वृ(बृ)हद्गृहः || पुं, (वृहद्गृहं यस्मिन् ।) कारूष- देशः । स तु विन्ध्यपर्व्वतस्य पश्चात् मालव- देशस्य निकटे वर्त्तते । इति हेमचन्द्रः ॥ त्रिकाण्डशेषे वृहद्गुह इति पाठः ॥