वाचस्पत्यम्
वृहद्भानु is an alternate of बृहद्भानु. बृ(वृ)हद्भानु || पु० ६ ब० । १ अग्नौ २ चित्रकवृके च अमरः । ३ आङ्गिरसे वह्निभेदे भा० ब० २२० । इन्द्रसावर्णिमन्वन्तरे ४ हरेरवतारभेदे भाग० ८ । १३ अ०
वाचस्पत्यम्
वृहद्भानु || पु० वृहद्भानुः किरणो यस्य । १ अग्नौ २ चित्रकवृक्षे च अमरः ।
शब्दकल्पद्रुमः
वृ(बृ)हद्भानुः || पुं, (वृहन् भानू रश्मिर्यस्य ।)
अग्निः । (यथा, महाभारते । ३ । २२० । ८ । “तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् । बृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥”)
चित्रकवृक्षः । इत्यमरः ॥ (सत्यभामापुत्त्रः । यथा, भागवते । १ । ६१ । १० । “चन्द्रभानुर्व्वृहद्भानुरतिभानुस्तथाष्टमः ॥” सत्रायणपुत्त्रः । यथा, भागवते । ८ । १३ । ३५ । “सत्रायणस्य तनयो वृहद्भानुस्तदा हरिः ॥” पृथुलाक्षस्य पुत्त्रः । यथा, भागवते । ९ । २३ । ११ । “चतुरङ्गो रोमपादात् पृथुलाक्षस्य तत्सुतः । वृहद्रथो वृहत्कर्म्मो वृहद्भानुश्च तत्सुताः ॥” वृहद्रश्मिविशिष्टे, त्रि । यथा, ऋग्वेदे । १ । ३६ । १५ । “वृहद्भानो यविष्ठ्य ॥” “हे अग्ने हे वृहद्भानो वृहन्तो भानवो यस्य तादृश ।” इति तद्भाष्ये सायणः ॥)