संस्कृत-शब्दकोशः

वृहद्रण वृहद्रथन्तर

वृहद्रथ

वाचस्पत्यम्

वृहद्रथ is an alternate of बृहद्रथ. बृ(वृ)हद्रथ ||‍ पु० मौर्य्ये १ नृपभेदे भाग० १२ । १ । २ आङ्गिरसे वह्नेः पुत्रभेदे भा० २१९ ३ मागधराजभेदे जरासन्धताते हरिव० ३ अ० । ३ चिदिराजवसोःपुत्रभेदे हरिवं० ११७ अ० ।


वाचस्पत्यम्

वृहद्रथ ||‍ पु० वृहत् रथोऽस्य । १ इन्द्रे २ यज्ञपात्रभेदे ३ साम- भेदे च ।


शब्दकल्पद्रुमः

वृ(बृ)हद्रथः || पुं, (वृहन् रथो यस्य ।)
इन्द्रः । यज्ञ- पात्रम् । मन्त्रविशेषः । सामवेदांशः । नदी- विशेषे, स्त्री । इति केचित् ॥ (तिग्मपुत्त्रः यथा, मात्स्ये । ५० । ८५ । “तिग्माद्बृहद्रथो भाव्यो वसुदामा वृहद्रथात् ॥” शतधन्वपुत्त्रः । यथा, भागवते । १२ । १ । १३ । “शतधन्वा ततस्तस्य भविता तद्वृहद्रथः ॥” देवरातपुत्त्रः । यथा, भागवते । ९ । १३ । १५ । “तस्माद्वृहद्रथस्तस्य माहावीर्य्यः सुधृत्पिता ॥” तिमिराजपुत्त्रः । यथा, तत्रैव । ९ । २२ । ४३ । “तिमेर्व्वृहद्रथस्तस्मात् शतानीकः सुदासजः ॥” पृथुलाक्षस्य पुत्त्रः । यथा, तत्रैव । ९ । २३ । ११ । “वृहद्रथो वृहत्कर्म्मा वृहद्भानुश्च तत्सुताः ॥” प्रभूतरथे, त्रि । यथा, ऋग्वेदे । ५ । ८० । २ । वृहद्रथा वृहती विश्वमिन्वा ।” “वृहद्रथा प्रभूतरथा ।” इति तद्भाष्ये सायणः ॥)



Correction: