वाचस्पत्यम्
वृहन्नल is an alternate of बृहन्नल. बृ(वृ)हन्नल || पु० बृहन्नलेति आख्यात्वेन् अस्त्यस्य अच् । अ- र्जुने हेमच० “आदाय प्रययौ वीरः स वृहन्नलसारथिः” भा० वि० ३७ अ० । “अर्जुन उवाच । प्रतिज्ञा षण्डको- ऽस्मीति करिष्यामि महीषते! । ज्याघातौ हि महान्तौ मे संवर्त्तुं नृप! दुष्करौअ । बलयैश्छादयिष्यामि बाहू किणकृताविमौ । कर्णयोः प्रतिमुच्याहं कुण्डले ज्वल- नप्रभे । पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः । वेणीकृतशिरा राजन्! नाम्ना चैव वृहन्नल” इति तस्य च अज्ञातवासकाले तथाख्यत्वम् भा० वि० १३ अ० उक्तम् ।
वाचस्पत्यम्
वृहन्नल || पु० वृहत् नलो यस्य । महापोटगले मेदि० ।
शब्दकल्पद्रुमः
वृ(बृ)हन्नलः || पुं, (वृहन् नलः ।)
महापोटगलः । इति मेदिनी ॥ अर्ज्जुनः । यथा, —
“पार्थः किरीटी गाण्डीवी गुडाकेशो वृहन्नलः । अर्ज्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः ॥ सव्यसाची सुभद्रशः शब्दभेदी कपिध्वजः । वार्त्ताघ्नश्चापि वीभत्सुः ॥” इति त्रिकाण्डशेषः ॥ अपि च । “अर्ज्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः । राधावेधी किरीट्यैन्द्री जिष्णुः श्वेतहयो नरः ॥ वृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः । वीभत्सुः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ॥” इति हेमचन्द्रः ॥