वाचस्पत्यम्
वृहन्नला(डा) || पुंस्त्री० वृहत् नलो यस्य वा लस्य डः । अजुने हेमच० विराटपर्वणि तत्कथा दृश्या ।
शब्दकल्पद्रुमः
वृहन्नला || स्त्री अर्ज्जुनः । इति मेदिनी ॥ द्वादशवर्ष- वनवासानन्तरमज्ञातवासे विराटभवने विराट- कन्याया नृत्यगीतादिशिक्षार्थं स्त्रीक्लीववेशे- नार्जुनो वृहन्नलेति नाम्ना ख्यातोऽभूत् । यथा, अर्ज्जुन उवाच । “गायामि नृत्याम्यथ वादयामि भद्रोऽस्मि नृत्ये कुशलोऽस्मि गीते । त्वमुत्तरायै प्रदिशस्व मां स्वयं भवामि देव्या नरदेव ! नर्त्तकः ॥ इदन्तु रूपं मम येन किन्तव प्रकीर्त्तयित्वा भृशशोकवर्द्धनम् । वृहन्नलां मां नरदेव विद्धि सुतं सुतां वा पितृमातृवर्जिताम् ॥ विराट उवाच । ददामि ते हन्त वरं वृहन्नले सुताञ्च मे नर्त्तय याश्च तादृशीः ॥” इति भहाभारते विराटपर्व्व ॥