वाचस्पत्यम्
वृहस्पति || पु० वृहत्याः वाचः पतिः पृषो० नि० । १ जीवे देवा- चार्य्ये अमरः २ ग्रहभेदे सू० सि० खगोलशब्दे तत्कक्षा- दिमानं तद्रूपादि च ग्रहयज्ञशब्दे द्वश्यम् । वृहस्पतिना च वौद्धधर्मः प्रवर्त्तितो यथाक्तं मत्स्यपु० २४ अ० “ततो वृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा । गत्वाथ मोहयामास रजिपुत्रान् वृहस्पतिः । जिनधर्मं समास्थाय वेदवाह्यं स वेदवित् । वेदत्रयी परिभ्रष्टांश्चकार धिषणाधिपः । वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्वधर्मवहिष्कृतान्” । वृहस्पतिसवः यज्ञभेदः ।
शब्दकल्पद्रुमः
वृ(बृ)हस्पतिः || पुं, (वृहतां वाचां पतिः । “पार- स्करेति ।” ६ । १ । १५७ । इति सुट् निपात्यते ।)
अङ्गिरसः पुत्त्रः । स च देवानां गुरुः धर्म्मशास्त्र- प्रयोजकः नवग्रहमध्ये पञ्चमग्रहश्च । तत्- पर्य्यायः । सुराचार्य्यः २ गीष्पतिः ३ धिषणः ४ गुरुः ५ जीवः ६ आङ्गिरसः ७ वाचस्पतिः ८ चित्रशिखण्डिजः ९ । इत्यमरः ॥ उतथ्या- नुजः १० गोविन्दः ११ चारुः १२ द्बादश- रश्मिः १३ गिरीशः १४ दिदिवः १५ पूर्ब्ब- फल्गुनीभवः १६ । इति जटाधरः ॥ सुरगुरुः १७ वाक्पतिः १८ वचसांपतिः १९ इन्द्रेज्यः २० देवेज्यः २१ वृहताम्पतिः २२ इज्यः २३ वागीशः २४ चक्षाः २५ दीदिविः २६ द्बादश- करः २७ प्राक्फाल्गुनः २८ गीरथः २९ । इति शब्दरत्नावली ॥ स च पीतवर्णः । ईशान- कोणपुरुषब्राह्मणजातिऋग् वेदसत्त्वगुण-मधुर- रसधनुर्मीनराशिपुष्यनक्षत्रवस्त्रपुष्परागमणि- सिन्धुदेशानां अधिपतिः । षडङ्गुलशरीरः । पद्मस्थः । चतुर्भुजः । अक्षवरकमण्डलुदण्डधारी । अस्याधिदेवता ब्रह्मा । प्रत्यधिदेवता इन्द्रः । स तु सूर्य्यास्यः । अङ्गिरोमुनिपुत्त्रः । प्रातःकाले प्रबलः । शुभग्रहः । देवगृहस्वामी । वृद्धः । रक्तद्रव्यस्वामी । वातपित्तकफात्मकः । बणिक्- कर्म्मकर्त्ता । अङ्गिरोगोत्रः । इति ग्रहयाग- तत्त्वादयः ॥ * ॥
तद्वारजातफलम् । “नृपेन्द्रमन्त्री नृपलब्धकामो विद्याविनोदो चतुरः प्रगल्भः । आचार्य्यपूज्यो मधुरस्वभावो वारे भवेद्देवगुरोर्मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
स च शिवस्य गुरुपुत्त्रः यथा, — महेन्द्र उवाच । “कथं वा देवकर्त्तुश्च सिद्धानां योगिनां गुरोः । मृत्युञ्जयस्य शम्भोश्च गुरुपुत्त्रो बृहस्पतिः । ततो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः ॥ ब्रह्मोवाच । कथेयमतिगुप्ता च पुराणेषु पुरन्दर । इमां पुरा प्रवृत्तिञ्च कथयामि निशामय ॥ मृतवत्सा कर्म्मदोषाद्भार्य्या अङ्गिरसः पुरा । व्रतं चकार मद्बाक्यात् कृष्णस्य परमात्मनः ॥ व्रतं पुंसवनं नाम वर्षमेकं चकार सा । सनत्कुमारो भगवान् कारयामास तां व्रतम् ॥ स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः । तदागत्य च गोलोकात् परमात्मा कृपामयः ॥ स व्रतानशनक्षीणां तामुवाच कृपानिधिः । प्रणतां साश्रुनेत्राञ्च विनीताञ्च तया स्तुतः ॥ श्रीकृष्ण उवाच । गृहाणेदं यज्ञफलं मम तेजःसमन्वितम् । भुङ्क्ष्व मद्वरपुत्त्रस्ते भविष्यति मदंशतः ॥ पतिर्गुरुश्च देवानां वृहतां ज्ञानिनां वरः । पुत्त्रस्ते भविता साध्वि ! मद्वरेण भविष्यति ॥ मद्वरेण भवेद्यो हि स च मद्वरपुत्त्रकः । त्वद्गर्भे मम पुत्त्रोऽयं चिरजीवी भविष्यति ॥ वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा । विद्यामन्त्रसुतानाञ्च गृहीतः सप्तमः सुतः ॥ इत्युक्त्वा राधिकानाथः स्वर्लोकञ्च ययौ पुरा । श्रीकृष्णवरपुत्त्रोऽयं ज्ञानी सुरगुरुः स्वयम् ॥ मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा । दिव्यं वर्षत्रिलक्षञ्च तपःकर्त्रे हिमालये ॥ सुयोगज्ञानममलं तेजः स्वात्मा समं परम् । स्वशक्तिविष्णुमायाञ्च स्वांशञ्च वाहनं वृषम् ॥ स्वशूलञ्च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् । कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः ॥ शिवलोके शिवा सा च विष्णुमाया शिव- प्रिया । शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥ तेजःसु सर्व्वदेवानां साविर्भूता सनातनी । जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम् ॥ कल्पान्ते दक्षकन्या च सा मूलप्रकृतिः सती । पितृयज्ञे तनुं त्यक्त्वा योगेन सिद्धयोगिनी ॥ बमूव शैलकन्या सा साध्वी च भर्त्तृनिन्दया । कालेन कृष्णतपसा शङ्करं प्राप शङ्करी ॥ श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः । कृष्णस्य वरपुत्त्रोऽयं स्वयमेव वृहस्पतिः । अतो हेतोः सुरगुरुर्गुरुपुत्त्रः शिवस्य च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः ॥ (पुरोहितः । मन्त्रपालके तु त्रि । यथा, ऋग्वेदे । ४ । ५० । ७ । “वृहस्पतिं यः सुभृतं बिभर्त्ति ॥” “वृहस्पतिं वृहतां महतां मन्त्राणां पालयितारं देवं उक्तलक्षणं पुरोहितं वा ।” इति तद्भाष्ये सायणः ॥)