शब्दकल्पद्रुमः
वृ(बृ)हस्पतिचक्रं || क्ली (वृहस्पतेः चक्रम् ।)
नृणां शुभाशुभज्ञानार्थं वृहस्पतिसञ्चारकालीन- अश्विन्यादिसप्तविंशतिनक्षत्रयुक्तनराकारचक्रम् । यथा, —
“शीर्षे चत्वारि राज्यं जलधिरपि करे दक्षिणे चापि सौख्यं चैकं कण्ठे विभूतिं मदनशरमितं वक्षसि प्रीतिसंहम् । पादस्थाः षट् च पीडां पुनरपि जलधिर्वामहस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे वाक्पतेः संक्रमर्क्षात् ॥” इति ज्योतिस्तत्त्वम् ॥