वाचस्पत्यम्
वेणु || पु० वेण—उण् । १ वंशे अमरः । २ तद्विकारे वंशीवाद्ये च शब्दच० । “मा पूरय वेणुम्” इत्युद्भटः । ३ नृपमेदे मेदि० ।
शब्दकल्पद्रुमः
वेणुः || पुं, (अज + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः । सच नित् । अजेर्वीभावो गुणश्च ।)
वंशः । इत्यमरः ॥ (यथा, रामायणे । ४ । ४३ । १७ । “तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥”)
वंशी । इति शब्दरत्नावली ॥ वेणोरुत्पत्ति- र्यथा, —
“वेणुर्यः शृणु तं विप्र तथापि विदितं तथा । द्विज आसीच्छान्तमनाः कृतसान्तपनादिभिः ॥ नाम्ना देवव्रतो दान्तः कर्म्मकाण्डविशारदः । अवैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥ एकदापि न शुश्राव यज्ञेशोऽस्तीति भूपते । तस्य गेहमथाभ्यागाद्वेदान्तकृतनिश्चयः ॥ मद्भक्तः कोऽपि पूजां स तुलसीदलवारिणा । कृतवांस्तु गृहे किञ्चित् फलमूलं न्यवेदयत् ॥ स्नानवारि फलं किञ्चित् तस्मै प्रीत्या ददौ सुधीः । अश्रद्धयान्वितं कृत्वा सोऽप्यगृह्णात् द्विजन्मनः ॥ तेन पापेन संजातं वेणुत्वमतिदारुणम् । तेन पुण्येन तस्यार्थो मदीयप्रियतां गतः ॥ अधुना सोऽपि राजेव केतुमाले विराजते । युगान्ते तु विष्णुपरो भूत्वा ब्रह्मत्वमाप्स्यति ॥” इति पाद्मे पातालखण्डे ५ अध्यायः ॥ नृपविशेषः । इति मेदिनी ॥