वाचस्पत्यम्
वेतन || न० अज—तनन् वीभावः । १ कृतकर्मणोमृतौ अमरः । मृतिशब्दे दृश्यम् । २ जीवनोपाये हेमच० ।
शब्दकल्पद्रुमः
वेतनं || क्ली (वी + “वीपतिभ्यां तनन् ।” उणा० ३ । १५० । इति तनन् ।)
कर्म्मदक्षिणा । माहिना इति मजुरि इति च भाषा । तत्- पर्य्यायः । कर्म्मण्या २ विधा ३ भृत्या ४ भृतिः भर्म्म ६ भरण्यम् ७ भरणम् ८ मूल्यम् ९ निर्व्वेशः १० पणः ११ । इत्यमरः ॥ विष्टिः १२ । इति जटाधरः ॥ (यथा, मनौ । ७ । १२६ । “पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ॥”)
जीवनोपायः । तत्पर्य्यायः । आजीवः २ जीव- नम् ३ वार्त्ता ४ जीविका ५ वृत्तिः ६ । इति हेमचन्द्रः ॥ रूप्यम् । इति शब्दचन्द्रिका ॥