संस्कृत-शब्दकोशः

वेतन वेतस

वेतनानपाकर्म्मन्

वाचस्पत्यम्

वेतनानपाकर्म्मन् ||‍ न० ६ त० । व्यवहारभेदे यत्स्वरूपादिकं वीरमि० उक्तं यथा नारदः “भृतानां वेतनस्योक्तो दानादानविधिक्रमः । वेत- नस्यानपाकर्म तद्विवादपदं स्मृतम्” । येतनं कर्ममूल्यं तस्यानपाकर्म भृत्याय समर्पणं समर्पितस्य वा परावर्त्त- नन् । तत्र समर्पणे विशेषमाह स एव “भृत्याय वेतनं दद्यात् कर्मस्त्वामी यथाक्रमम् । आदौ मध्येऽवसाने तु कमणो यद्विनिश्चितम्” । तुभ्यमेतावदहं दास्यामीति यद्वेतनं परिमाणतो निश्चितं तत्त्रिधा विभज्य कर्मण आदिमध्यान्तेषु त्रिषु कालेष्वन्यतमकाले वा दद्यादित्यर्थः । एतच्चैतावद्वेतनं दास्यामीति भाषायाः सत्त्वे । असत्त्वे त्वाह स एव “भृतावनिश्चितायां तु दशभागमवाप्नुयुः । लाभं गोवीर्य्यशस्यानां वणिग्गोपकृषीबलाः” इति । दशभागं दशमम्भागङ्गोवीर्य्यं पाल्यमानगवादिभवम्पयो- दध्यादि । यदि कर्मस्वामी भृत्याय दशमम्भागन्न प्रय- च्छति तदाऽसौ राज्ञा दाप्य इत्याह याज्ञवल्क्यः “दा- प्यस्तु दशमम्भागं वाणिज्यपशुशस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत् स महीक्षिता” इति । यस्तु स्यामी वेतनपरिच्छेदमकृत्वैव भृत्यं कर्म कारयति स तस्माद् वाणिज्यपशुशस्यलक्षणात् कर्मणः सकाशाद् यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीय इत्यर्थः । यत् तु “त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः” इति वृहस्पतिवचनं तद्बह्वायाससाध्याकृष्टक्षेत्र- विषयम् । व्यवस्थितविकल्पश्चायम् । कथमत्र व्यव- स्थेत्याकाङ्क्षायामाह स एव “भक्ताच्छादभृतः सीरी भागं गृह्णीत पञ्चमम् । जातशस्यात्त्रिभागं तु प्रगृह्णीयाद- थाऽभृतः” इति । अशनाच्छादनाभ्यां भृतः कृषीयलो लाङ्गलविकृष्टक्षेत्रजातशस्यात् पञ्चमम्भागं गृह्णीयात् । ताभ्यामभृतस्तु तृतीयं भागमित्यर्थः । अथ वा यत्रै- तावद्दास्यामीति नास्ति परिभाषा तत्र वृद्धमनूक्तं द्रष्ट- व्यम् “समुद्रयानकुशला देशकालार्थदर्शिनः । निय- च्छेयुर्भृतिं यान्तु सा स्यात् प्रागकृता तदा” इति । एता- वद्दास्यामीति परिभाषितेऽपि क्वचित्ततो न्यूनमपि स्वा- मिमात्रपरिकल्पितं देयं कचित्ततोऽधिकमपि देयमि- त्थाह याज्ञवल्क्यः “देशं कालञ्च योऽतीयाल्लाभं कुर्य्याच्च योऽन्यथा । तत्र स्यात् स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके” इति । यो भृत्यः स्वाम्यनुज्ञां विना स्वातन्त्र्येण वाणिज्यादिकर्मणः फलसाधकत्वापादकं देशं कालं चातिक्रामति लाभं वा बहुतरं व्यस्तेन स्वल्पं करोति तस्मै पूर्वपरिभाषितभृतिमध्ये स्वामी स्वेच्छा- नुसारेण किञ्चिद् दद्यात् । यस्तु स्वातन्त्र्येण बहुलाभं करोति तस्मै परिभाषितमूल्यादधिकं किञ्चिद्देयं स्वा- मिना पारितोषिकमित्यर्थः । अनेकभृत्यसाध्यकर्मणि वेतनार्पणप्रकारमाह स एव “यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत् साध्ये कुर्य्याद् यथाश्रुतम्” इति । उभयोरपीत्यपिना बहूनां ग्रहणम् अस्मिन् गृहादौ कृते भवतामेतावद्वास्यामीति परिमाषिते द्विबहुभिरारब्धं कर्म यदि व्याध्यादिव- शान्न समापितं तदा तेषु यो यावत् कर्म करोति तस्मै तत्कर्मानुसारेण मध्यस्थपरिकल्पितं वेतनं देयम् । न तु साम्येन दानन्न च परिसमाप्त्यभावाददानम् । यदि तैः समापितं तदा यथा परिभाशितं देयन्न तु प्रत्येकं कृत्स्नं दातव्यं नापि कर्मानुसारेण परिकल्प्य दातव्य- मित्यर्थः । यस्तु वेतनं गृहीत्वा समर्थोऽपि न कर्म करोति तं प्रत्याह वृहस्पतिः “गृहीतवेतनः कर्म न करोति यदा भृतः । समर्थश्चेद्दमन्दाप्यो द्विगुणं तच्च वेतनम्” इति । दमं शक्त्यनुसारेण राज्ञा दाप्यः । गृ- हीतञ्च वेतनं द्वैगुण्येन स्वामिने दद्यादित्यर्थः । ना- रदोऽपि “भृतिं गृहीत्वाऽकुर्वाणो द्विगुणां भृतिमाव- हेद्” इति । याज्ञवल्क्योऽपि “गृहीतवेतनः कर्मत्यजन् द्विगुणमावहेद्” इति । अस्मिन्नेव विषये यावता वेत- नेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने देयन्न तु राज्ञे दण्डमित्यर्थः । यद्वाङ्गीकृतां भृतिं दत्त्वा वलात्कारयि- तव्य इत्याह नारदः “कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं वलाद्” इति । प्रतिश्रुत्येति प्रारम्भस्याप्युपल- क्षणार्थम् अतएव कात्यायनः “कर्मारम्भं तु यः कृत्वा सिद्धिन्नैव तु कारयेत् । बलात्कारयितव्योऽसावकुर्वन् दण्डमर्हति” इति । कियद् द्रव्यं दण्ड्य इत्यपेक्षायामा- हतुर्वृद्ध मनुवृहस्पती “प्रतिश्रुत्थ न कुर्य्याद् यः स कार्यः स्याद् बलादपि । स चेन्न कुर्य्यात् तत्कर्म प्राप्तुयाद् द्विशतं दमम्” इति । द्विशतं कार्षापणद्विशतमित्यर्थः । यत् तु मनुवचनम् “भृतोऽनार्त्तो न कुर्य्याद् यो दर्पात् कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” इति । तदल्पदण्डत्वाद्भागासिद्धिविषयमिति स्मृतिचन्द्रिकायाम् । अर्द्ध्वन्यूनकर्मकरणविषयमिति मदनरत्ने । किञ्चिन्न्यूनकर्मकरणे त्वाह स एव “य- थोक्तमार्त्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः” इति । सुस्थो वा कर्म कारयेदिति वदता सुस्थेऽपि स्वयं कर्तृत्वनियमो नास्तीति दर्शयति । आर्त्तो यदि आर्त्युपशमानन्तरं स्वाङ्गीकृतं कर्म करोति तदार्त्ते दीर्घकालतया काल- क्षेपेऽपि भृत्यदोषाभावाद्वेतनमसौ निर्विवादं सभत इत्याह स एव “आर्त्तस्तु कुर्य्यात् सुस्थः सन् यथाभा- षितमादितः । सुदीर्घस्यापि कालस्य तल्लमेतैव वेतनम्” आदितः आदौ यथामाषितं यथाप्रतिज्ञातं तथा कु- र्य्यादित्यर्थः । सुदीर्षस्यापि कालस्य अत्ययेऽप्रीति शेषः । यस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय तत्काला- पूर्त्तावेव कर्म त्यजति तं प्रत्याह नारदः “कालेऽपूर्णे त्यजन् कर्म भृतर्नाशमवाप्नुयाद्” । अत्र दण्डमप्याह विष्णुः भृतकश्चापूर्णे काले त्यजन् सकलमेव मूल्यञ्ज- ह्यात् राज्ञे च पणशतं दद्यादिति” । मूल्यं वेतनम् । स्वामिदोषात्त्यागे तु यावति काले कर्म कृतं तत्काला- नुसारेण कल्पितं वेतनं लभत इत्याह नारदः “स्वा- मिदोषादपक्रामन् यावत् कृतमवाप्नुयाद्” इति । स्वामि- दोषो विनापराधं निष्ठुरभाषणादिः । अत्र दण्डम- प्याह विष्णुः “स्वामो चद्भृतकमपूर्णे काले जह्यात् तस्य सर्वमेव मूल्यं दद्यात् पण्यञ्च राजन्यत्र भृतादाषादिति” । स्वामिद्रव्यस्य भृत्यदोषेण नाशे यत् कर्त्तव्यं तदाह स एव । “तद्दाषेण यद्विनश्येत्तत् स्वामिने देयमन्यत्र दै- वोपथातादिति” । दैवोपघातोराजकृतस्याप्युपलक्षणम । स्वामिने देयं मूल्यद्वारेणेति शेषः । अत्र दोषविशेषः । द्विशेषमाह वृहन्मनुः “प्रामादान्नाशितं दाप्यः समं द्वि र्द्रोहनाशितम्” इति । प्रमादान्नाशितमनबधानना- शितं सममेव दद्यात् । द्रोहनाशितं तीव्रप्रयत्नादिना द्रोहेण नाशितं द्विर्दाप्यो द्विगुणं दाप्य इत्यथः । भृत्य- दोषाभावे यदन्यत एव नष्टं तन्न देयमित्याह स एव “न तु दाप्यो हतञ्चौरैर्दग्धमूढं जलेन वेति” । ऊढं नीतम् । यस्तु वाहको वाह्यं द्रव्यं प्रज्ञाहीनात्वादिना स्वदोषेण नाशयति तं प्रत्याह नारदः “भाण्डं व्यस- नमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु दैवराजकृतादृते” इति । भाण्डं वहनीयं द्रव्यं सक्तु- कादि व्यसनं नाशम् । अत्र भाण्डवाहकयोर्ग्रहर्ण- बलीवर्दकृषीबलयोरुपलक्षणमिति मदनरत्ने । अत्रापि “प्रमादान्नाशितं दाप्यः समं द्विर्द्रोहनाशितमिति” वृद्ध- मनूक्तोविशेषोऽवगन्तव्यः । यस्तु वाहकः स्वदोषण प्रस्थानविघ्नं करोति स द्विगुणां भृति दाप्य इत्याह कात्यायनः “विघ्न यो वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम्” इति । विघ्नं करोतीति शेषः । वाहकग्रहणं प्रदर्शनार्थं न तु विवाक्षतन्तेनायुधीयादेर्युद्धविघ्नकारिणी- ऽप्येतदिति मन्तव्यम् । अतएव नारदः “द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन्” इति सामान्ये- नोक्तवान् । याज्ञवल्क्योऽपि “प्रस्थानविघ्नकृच्चैव पदाप्यो द्विगुणां भृतिम्” इति । एतच्च भृत्यान्तरसम्पादनकाला- सम्भवविषयम् । अङ्गीकृतकर्मकरणस्यापि यदा सहा- यान्तरालाभेन प्रस्थानविघ्नापादकत्वं तदा त्वाह स एव “प्रकान्ते सप्तमम्मागञ्चतुर्थं पथि सन्त्यजन् । भृति- मर्ङ्घपथे सर्वां प्रदाप्यस्त्याजकोऽपि च” इति । प्र- क्रान्ते कर्मणि स्वाङ्गीकृतं कर्म त्यजन् मृत्यो भृतेः सप्तमम्भागं दाप्यः । गमने प्रारब्धे पथि त्यजन् भृते- श्चतुर्थं भागम् । अर्द्ध्वपथे त्यजन् सर्वां भृतिमित्यर्थः । त्याजकोऽपि चेत्यस्यायमर्थः गमनारम्भानन्तरं स्वामी यदि त्याजयति तदा पूर्वोक्तक्रमेण भृयाय सप्तमभा- गादिकं दापनीय इति । एतच्चाव्याधितादिविषयम् व्याधितस्यापराधाभावात् । यच्च स्वामिना त्याजने च तु- र्थभागदापनमुक्तं तदविक्रीतभाण्डस्वामिबिषयम् । वि- क्रातभाण्डस्वामिना यत् कर्त्तव्यं तदाह वृहन्मनुः “पथि विक्रीय तद्भाण्डंबणिक् भृत्यं त्यजेद् यदि । अथ तस्यापि देयं स्याद् भृतेरर्द्ध्वं कभेत सः” इति । पथि भाण्डस्य चौरादिभिः प्रतिरोधे राजादिभिरपहृते स्वा- मिनः कर्त्तव्यमाह कात्यायनः “यदा च पथि यद्भाण्ड- मारुद्ध्येत ह्रियेत वा । यावानध्वा गतस्तेन प्राप्नुयात् ता- वतो धनम्” इति । तेन भारवाहकस्वीकृतेन यानादिना । भाण्डनेतारं प्रत्याह नारदः “अनयन्भाटयित्वा तु भा- ण्डयन् यानवाहनम् । दाप्यो भृतिचतुर्भागं सर्वामर्द्ध्वपथे त्यजन्” इति । यानं शकटादि वाहनम् अश्वादि । अय- मर्थः यो यानादिना भाण्डनयनं कर्तुं परकीयं यानादिकं भाटयित्वा प्रापणादिकार्योपाधिकं परिक्रयं कृत्वा तन्न नयति स यानस्वामिने परिकल्पितस्य भाटकस्य चतुर्थाऽंशं दाप्यः । यस्तु तन्नीत्वाऽर्द्धमार्गे त्यजति स सर्वां भृतिं दाप्य इति । यस्तु शकटादिकं भाटयित्वा तमेवोपकारशून्यमादाय देशान्तरं गच्छति भाटकं च न प्रयच्छति तं घ्नत्याह वृद्धमनुः “यो भाटयित्वा शकटं नीत्वा वाऽन्यत्र गच्छति । भाटं म दद्याद् दाप्यः स्या- दनूढस्यापि भाटकम्” इति । अनूढस्यापि अकृतोप- कारस्यापीत्यर्थः । यस्तु कृते कृत्ये समनन्तरं वाहनादेः समर्पणं न करोति तस्य समर्पणपर्य्यन्तभाटकदानमाह कात्यायनः “हस्त्र्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन मः । नार्पयेत् कृतकृत्यः संस्तावद्दाप्यः स भाटकम् । गृह वार्यापणादीनि गृहीत्वा भाटकेन यः । स्वामिने नार्पयेद् यावत्तावद्दाप्यः स भाटकम्” इति । वारिशब्देन तदाधा- रभूतं पात्रं लक्ष्यते । नार्पयेत् कृतकृत्यः सन्नित्यनुषङ्गः । परभूमौ गृहनिर्माणाय भाटकदातारं प्रत्याह नारदः “परभूमौ गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः । स तद्गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम्” इति । स्तोमम्भाटकं स्तोमाप्रदानेऽप्याह स एव “स्तोमाद्विना वसित्वा तु परभूमावनिश्चितम् । निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन । यान्येव तृणकाष्ठानि त्विष्ट- का विनिवेशिताः । विनिर्गच्छंस्तु तत् सर्वं भूमिखामिनि येदयेद्” इति । स्वामिने निवेदयेदित्यर्थः । अनिश्चित- मिति वदता तृणकाष्ठादिग्रहणाग्रहणपरिभाषावि- हीनविषयमेतदिति दर्शितम् । परिभाषाविषये तु यथा परिभाषितं कर्त्तव्यम् । भाटके गृहीतानां जलपात्रा- दीनां भङ्गे नाशे च विशेषमाह स एव “स्तोमवा- हीनि भाण्डानि पूर्णकालान्युपानयेत् । गृहीतुराह- रेद्भग्नं नष्टञ्चान्यत्र संप्लवात्” इति । स्तोमवाहीनि भाटकगृहीतानि पूर्वपरिभाषितभाटकानि तत्स्वा- मिनं प्रापयेदिति पूर्वार्द्धार्थः । भग्नमेकदेशेन विकृतं नष्टम् कात्स्न्येन विकृतम् । संप्लवः परस्परसङ्घर्षः तद्भिन्नप्रकारेण यद्भग्नन्नष्टञ्च तद्भाटकगृहीतुर्भवति । संप्लवेन तु यद्भग्नन्नष्टञ्च तद्भाटकदात्रा पूर्ववत् कृत्वा मूल्य- द्वारेण वा देयमित्यर्थः । व्याधितस्य भृत्यस्य स्वामिना पथि त्यागे दण्डमाह कात्यायनः “त्यजेत् पथि सहायं यः श्रान्तं रोगार्त्तमेव वा । प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहमपालयन्” इति । स्वाम्यनुज्ञातेन भृत्येनापराधे कृते सोऽपराधः स्वामिन एवेत्याह वृहस्पतिः “प्रभुणा विनियुक्तः मन् भृतको विदधाति यत् । तदर्थमशुभं कर्म स्वामी तत्रापराध्नुयाद्” इति । स्वामी कृतकर्मणे भृतकाय यदि न वेतनं ददाति तदाऽसौ राज्ञा दाप- नीयः इत्याह स एव “कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृते । राज्ञा दापयितव्यः स्याद् वेतनञ्चानु- रूपतः” इति । वेश्यातदुपभोक्तृविषये नारद आह “शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अ- निच्छन् शुल्कदातापि शुल्कहानिमवाप्नुयात्” इति । एतदव्याधितादिविषयम् । व्याधितादिविषये त्वाह वृह० स्पतिः “व्याधिता सश्रमव्यथा राजकार्यपरायणा । आभन्त्रिता च नागच्छेदवाच्या बडवा स्मृता” इति । आमन्त्रिता आहूता । वडवा दासी तद्ग्रहणमत्र प- ण्यस्त्रीप्रदर्शनार्थम् । उपभोक्तारं प्रत्याह नारदः “अप्रयच्छन्नथो शुल्कमनुभूय पुमान् स्त्रियम् । अक्रमेण तु सङ्गच्छेद घातदन्तनखादिभिः । अयोनौ यः समाक्रा- मेद् बहुभिर्वापि वासयेत् । शुल्कं सोऽष्टगुणं दाष्यो विनयं तावदेव तु” इति । वेश्यायास्त्वपराधे दण्डा- दिकं मत्स्यपुराणे दर्शितम् “गृहीत्वा वेतनं वेश्या लो- भादन्यत्र गच्छति । तां दमं दापयेद्दद्यादितरस्यापि भा- टकम्” इति । इतरस्य दत्तशुल्कस्य । तत्रैव विशेषान्तर मुक्तम् “अन्यमुदिश्य वेश्यां यो नयेदन्यस्य कारणात् । तस्य दण्डो भवेद्राज्ञः सुवर्णस्य च माषकम् । नीत्वा भोगन्न यो दद्याद् दाप्यो द्विगुणवेतनम् । राज्ञश्च द्विगुणं दण्डं तथा धर्मो न हीयते । बहूनां व्रजता- मेकां सर्वे तद् द्विगुणं धनम् । तस्यै दद्युः पृथक् राज्ञे दण्डञ्च द्विगुणम्परम्” इति । अत्र निर्णेतॄनाह नारदः “वेश्याःप्रधाना यास्तत्र कामुकास्तद्गृहोषिताः । तत्समुत्थेषु कार्य्येषु निर्णयं संशये विदुः” इति ।



Correction: