संस्कृत-शब्दकोशः

वेतनानपाकर्म्मन् वेतसाम्ल

वेतस

वाचस्पत्यम्

वेतस ||‍ पु० अज—असुन् तुक् च वीभावः । (वेत) वृक्षभेदे अमरः । स्त्रीत्वमपि शब्दच० तत्र गौरा० ङीष् ।


शब्दकल्पद्रुमः

वेतसः || पुं, (वे + “वेञस्तुट् च ।” उणा० ३ । ४४८ । इति असच् । तुडागमश्च ।)
लताविशेषः । वयसा इति भाषा । इति भरतः ॥ वेति जल- प्लवतां गच्छति इति वेतसः । वील ईलवत् नाम्नीति तसः । इत्यमरटीकायां भरतः ॥ तत्- पर्य्यायः । रथः २ अभ्रपुष्पः ३ विदुलः ४ शीतः ५ वानीरः ६ वञ्जुलः ७ । इत्यमरः ॥ प्रियः ८ । इति रत्नमाला ॥ गन्धपुष्पः ९ रथाभ्रः १० वेतसी ११ । इति शब्दरत्नावली ॥ निचुलः १२ दीर्घ- पत्रकः १३ कलमः १४ मञ्जरीनम्रः १५ सुषेणः १६ गन्धपुष्पकः १७ । (यथा, भागवते । ३ । २ । १७ । “कदम्बवेतसनलनीपवञ्जुलकैर्व्वृतम् ॥”)
अस्य गुणाः । स्वादे कटुत्वम् । शीतत्वम् । भूतरक्तपित्तोद्भवरोगकुष्ठदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः । “वेतसो नम्रकः प्रोक्तो वानीरो रञ्जनस्तथा । अभ्रपुष्पञ्च विदुलो रथः शीतश्च कीर्त्तितः ॥ वेतसः शीतलो दाहशोथार्शोयोनिरुग्व्रणान् । हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान् ॥” इति भावप्रकाशः ॥ जलवेतसस्य पर्य्यायगुणाः । अथ जलवेतसः । “निकुञ्चकः परिव्याघो नादेयो जलवेतसः । जलजो वेतसः शीतः संग्राही वातकोपनः ॥” इति भावप्रकाशः ॥ (जलजाताग्निः । यथा, ऋग्वेदे । ४ । ५८ । ५ । “हिरण्ययो वेतसो मध्य आसाम् ॥” “वेतसोऽप्सम्भवोऽग्निः ।” इति तद्भाष्ये सायणः ॥”)



Correction: