वाचस्पत्यम्
वेतस्वत् || त्रि० वेतसाः सन्त्यत्र भूम्ना वेतस + ड्व्तुप् । बहु० वेतसयुक्ते देशे अमरः ।
शब्दकल्पद्रुमः
वेतस्वान् || [त्] त्रि, (वेतसाः सन्त्यत्र । “कुमुदनडवे- तसेभ्यो ड्मतुप् ।” ४ । २ । ८७ । इति ड्मतुप् । “मादुपधायाः ।” ८ । २ । ९ । इति मस्य वत्वम् ।)
वेतसलताबहुलदेशः । इत्यमरभरतौ ॥