वाचस्पत्यम्
वेतालभट्ट || पु० विक्रमादित्यसभास्थे नवरत्नान्तर्गते कविभेदे
शब्दकल्पद्रुमः
वेतालभट्टः || पुं, राजविक्रमादित्यस्य नवरत्नान्त- र्गतरत्नविशेषः । यथा, —
“धन्वन्तरिः क्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नश्लोकः ॥