वाचस्पत्यम्
वेत्रकीय || त्रि० वेत्र + छ—कुक्च । १ वेत्रसमूहे २ तद्युक्तदेशादौ च सि० कौ० ।
शब्दकल्पद्रुमः
वेत्रकीयः || त्रि (वेत्र + “नडादीनां कुक् च ।” ४ । २ । ९१ । इति कुक् छश्च ।)
वेत्रसमूहयुक्तदेशादिः । इति सिद्धान्तकौमुदी ॥ (एकचक्रा नगरी तु वेत्रप्राचुर्य्यवत्त्वेन तदाख्ययापि प्रसिद्धा । यथा, महाभारते । १ । १६१ । ९ । “वेत्रकीयगृहे राजा नायं नयमिहास्थितः । उपायं तं न कुरुते यत्नादपि स मन्दधीः ॥”)