संस्कृत-शब्दकोशः

वेत्रधारक वेत्रहन्

वेत्रवती

वाचस्पत्यम्

वेत्र(त्रा)वती ||‍ स्त्री वेत्रा बाहुल्येन सन्त्यस्याः मतुप् मस्य वः वा दीर्घः । १ मालवदेशस्थे नदीभेदे “शरावती वेत्र- वती चन्द्रभागा सरस्वती” । २ वृत्तासुरमातरि वराहपु० ।


शब्दकल्पद्रुमः

वेत्रवती || स्त्री नदीविशेषः । इत्यमरः ॥ सा तु मालवदेशात् कालपीनामनगरे यमुनायां मिलिता । वेत्रासुरमाता । यथा, वराहपुराणे । “वेत्रवत्युदरे जातो नाम्ना वेत्रासुरोऽभवत् ॥”



Correction: