वाचस्पत्यम्
वेदपारग || पु० वेदानां पारमन्तं सीमां गच्छति गम—ड । समस्तवेदाध्ययिनि ।
शब्दकल्पद्रुमः
वेदपारगः || त्रि (वेदस्य पारं गच्छतीति । गम + डः ।)
वेदवेत्ता । ब्रह्मज्ञानी । यथा, —
“चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे । तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥” इति श्राद्धतत्त्वे पितृगाथा ॥