वाचस्पत्यम्
वेदमातृ || स्त्री ६ त० गायत्र्यां मन्त्रभेदे तस्याः स्वमात्रपाठेन वेदरक्षकत्वात्तथात्वम् ।
शब्दकल्पद्रुमः
वेदमाता || [ऋ] स्त्री, (वेदानां माता ।)
गायत्त्री । यथा, —
“योऽधीतेऽहन्यहन्येतां सावित्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ गायत्त्रीं वेदजननीं गायत्त्रीं लोकपावनीम् । न गायत्त्र्याः परं जप्यं एतद्बिज्ञाय मुच्यते ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥ * ॥
दुर्गा । यथा, —
“ब्रह्मिष्ठा वेदमातृत्वाद्गायत्त्री चरणाग्रजा । वेदेषु चरते यत्नात्तेन सा ब्रह्मचारिणी ॥” इति देवीपुराणे ४५ अध्यायः ॥