संस्कृत-शब्दकोशः

वेदमातृ वेदवत्

वेदवती

शब्दकल्पद्रुमः

वेदवती || स्त्री (वेदं ज्ञानमस्त्यस्या इति । वेद + मतुप् । मस्य वः । स्त्रियां ङीष् ।)
कुश- ध्वजराजकन्या । सा जन्मान्तरे सीता । यथा, वह्निरुवाच । “त्वं गच्छ तपसे देवि ! पुष्करञ्च सुपुण्यदम् । कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यति ॥ सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः । दिव्यं त्रिलक्षवर्षञ्च स्वर्गलक्ष्मीर्बभूव ह ॥ सा च कालेन तपसा यज्ञकुण्डसमुद्भवा । कामिनी पाण्डवानाञ्च द्रौपदी द्रुपदात्मजा ॥ कृते युगे वेदवती कुशध्वजसुता शुभा । त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ॥ तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा । त्रिहायणीति सा प्रोक्ता विद्यमानयुगत्रये ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १२ अध्यायः ॥ (पारिपात्रपर्व्वतस्थनदीविशेषः । यथा, मार्क- ण्डेये । ५७ । १९ । “वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च ॥”)



Correction: