संस्कृत-शब्दकोशः

वेदवास वेदव्यास

वेदविद्

वाचस्पत्यम्

वेदविद् ||‍ पु० वेदं वेत्ति विद—क्विप् । १ विष्णौ विष्णुस० २ वेदज्ञे त्रि० ।


शब्दकल्पद्रुमः

वेदवित् || [द्] पुं, (वेदान् वेत्तीति । विद् + क्विप् ।)
विष्णुः । यथा, —
“वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥” इति तस्य सहस्रनामस्तोत्रम् ॥ वेदज्ञे, त्रि । (यथा, मनुः । २ । ७८ । “एतदक्षरमेताञ्च जपन् व्याहृतिपूर्ब्बिकाम् । सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥”)



Correction: