वाचस्पत्यम्
वेदव्यास || पु० वेदान् व्यस्यति विभिन्नशाखत्वेन पृथक् करोति वि + अस—अण् । पराशरपुत्रे सत्यवतीगर्भजे १ मुनिभेदे तथा भूतेषु अन्येषु २ मुनिषु च । युगभेदे तद्भेदाश्च विष्णुपु० ३ अं ३ अ० उक्ता यथा पराशर उवाच “यस्मिन् मन्वन्तरे व्यासा ये ये तांस्तान् निबोध मे । यथा च भेदः शाखानां व्यासेन क्रियते मुने! । अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः । विअवस्वतेऽ- न्तरे त्वस्मिन् द्वापरेषु पुनःपुनः । वेदव्यासा व्यतीता ये अष्टविंशतिसत्तमाः । चतुर्द्धा यैः कृतो वेदो द्वापरेषु पुनःपुनः । द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा १ । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः २ । तृतीये चोशना ३ व्यासश्चतुर्थे तु वृहस्पतिः ४ । सविता ५ पञ्चमे व्यासो मृत्युः ६ षष्ठे स्मृतः प्रभुः । सप्तमे च तथैवेन्द्रो ७ वसिष्ठ ८ श्चाष्टमे स्मृतः । सारस्वत ९ श्च नवमे त्रिधामा १० दशमे स्मृतः । एकादशे च त्रिवृषो ११ भरद्वाज १२ स्ततः- परम् । त्रयोदशे चान्तरीक्षो १३ धर्म्मी १४ चापि चतु- र्दशे । त्रय्यारुणः १५ पञ्चदशे षोडशे तु धनङ्गयः १६ । कृतञ्जयः १७ सप्तदशे ऋणज्यो १८ ऽष्टादशे स्मृतः । ततो व्यासो भरद्वाजो १९ भरद्वाजात्तु गौतमः २० । गोतमा- दुत्तरं व्यासो हर्य्यात्मा २१ योऽभिधीयते । अथ हर्य्या- त्मनो वेणः स्मृतो वाजश्रवास्तु २२ यः । सोमो मुख्या- यनस्तस्मात् तृणविन्दु २३ रिति स्मृतः । ऋक्षोऽभूद्भार्गव- स्तस्मात् वाल्मीकि २४ र्योऽभिधीयते । तस्मादस्मत् पिता शक्तिः २५ व्यासस्तस्मादहं २६ (पराशरः) मुने! । जातू- कर्णो २७ ऽभवन्मत्तः (पराशरादनन्तरम्) कृष्णद्वैपायन २८ स्ततः । (ततो जातूकर्णात्परम अष्टाविंशतिमे युगे) “अ- ष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः । एकोवेदश्चतुर्द्धा तु तेः कृतो द्वापरादिषु । भविष्ये द्वापरे चैव द्रोणिर्व्यासो भविष्यति । व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने”!
शब्दकल्पद्रुमः
वेदव्यासः || पुं, (वेदं व्यस्यति पृथक् करोतीति । वि + अस + अण् । निरुक्तिस्तु परत्र द्रष्टव्या ।)
मुनिविशेषः । तत्पर्य्यायः । माठरः २ द्वैपायनः ३ पाराशर्य्यः ४ कानीनः ५ वादरायणः ६ व्यासः ७ । इति हेमचन्द्रः ॥ कृष्णद्वैपायनः ८ सत्यभारतः ९ पाराशरिः १० सात्यवतः ११ । इति त्रिकाण्डशेषः ॥ वादरायणिः १२ सत्य- वतीसुतः १३ सत्यरतः १४ पाराशरः १५ । इति शब्दरत्नावली ॥ (यथा, विष्णपुराणे । “वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् । द्वापरे तु युगे विष्णुर्व्यासरूपी महामुने । वेदमेकं स बहुधा कुरुते जगतो हितः ॥ यया च कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा सा मूर्त्तिर्मधुद्विषः ॥”)
अस्यान्यत् विवरणं व्यासशब्दे द्रष्टव्यम् ॥