वाचस्पत्यम्
वेदसावर्णि is an alternate of देवसावर्णि. देव(वेद)सावर्णि || पु० मनुभेदे स च त्रयोदशो मनुः । यथा “मनुस्त्रयोदशो भव्यो वेद (देव) सावर्णिरात्म- वान् । चित्रसेनविचित्राद्या वेद (देव) सावर्णि देहजाः । सुकर्मसूत्रामसंज्ञा देवा इन्द्रो दिवस्पतिः । निर्मोहतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा । देवहोत्रस्य तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेरंशो वृहत्यां संभविष्यति” भाग० ८ । १३ । १४