संस्कृत-शब्दकोशः

वेदाङ्ग वेदादिबीज

वेदादि

वाचस्पत्यम्

वेदादि ||‍ पु० वेदस्यादिरिव तत्पाठे प्रथमोचार्य्यमारत्वात् । प्रणवे


शब्दकल्पद्रुमः

वेदादि || क्ली (वेदानामादि । “क्वचिदौपचारिकाः शब्दाः स्वलिङ्गमपि त्यजन्तीति” न्यायादस्य क्लीवत्वम् ।)
प्रणवम् । यथा, —
“वेदादि भुवनेशीञ्च श्रीबीजं ङेयुतं भृगुम् । कारयित्वा वदेन्मन्त्रं शुक्रस्य च षडक्षरम् ॥” इति रुद्रयामलम् ॥ (वेदस्य पूर्ब्बे, पुं, । यथा, तैत्तिरीयारण्यके । “यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रति- ष्ठितः ॥”)



Correction: