संस्कृत-शब्दकोशः

वेदादिबीज वेदान्त

वेदाधिप

वाचस्पत्यम्

वेदाधिप ||‍ पु० ६ त० । “ऋग्वेदाधिपतिर्जीवो यजुर्वेदाधिपो भृगुः । सामवेदाधिपो भौमः शशिजोऽथर्ववेदपः” इत्युक्तेषु जीवादिषु २ विष्णौ च विष्णुस० ।


शब्दकल्पद्रुमः

वेदाधिपः || पुं, (वेदानामधिपः ।)
चतुर्व्वेदाधि- पतिग्रहः । यथा, —
“ऋग्वेदाधिपतिर्जीवो यजुर्व्वेदाधिपः सितः । सामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट् ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: