वाचस्पत्यम्
वेदान्त || पु० ६ त० । वेदशिरोभागे ब्रह्मप्रतिपादके उपनिष- द्रूपे १ ग्रन्थभेदे तदुपकारके २ शारीरकसूत्रभाष्यादौ च उत्तरामीमांसाशब्दे १०९७ पृ० दृश्यम् । शारीरकसूत्रञ्च बहुभिसाचार्य्यैः स्वस्वमतानुसारेण व्याख्यातं तत्र रा- मानुजपूर्णंप्रज्ञशब्दयोस्तत्तन्मतं प्रदर्शितं शाङ्करमतानुसारि मतस्य सिद्धान्तविन्दुप्रदर्शितस्य सङ्क्षेपोऽत्र प्रदर्श्यते “वेदान्तिमते सामान्यतः द्विवध एव पदार्थः दृग्दृश्यश्च तत्रैव सर्वपदार्थान्तर्भावात् । तत्र दृक्पदार्थ आत्मा । स च सर्वदैकरूपोऽप्यौपाधिकभेदात् त्रिविधः ईश्वरः जीवः साक्षी चेति । तत्र कारणीभूताज्ञानो पाधि- रीश्वरः । अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितो जावः । जीवेश्वरानुगतसर्वानुसंधातृ चैतन्यं साक्षी । तत्रेश्वरोऽपि त्रिविधः स्वोपाधिभूताविद्यावृत्तिसत्त्वादि- गुणत्रयभेदेन विष्णुब्रह्मरुद्रभेदात् । तत्र कारणीभूत- सत्त्वगुणावच्छिन्नो विष्णुः पालयिता । तथा रज उप- हितो ब्रह्मा स्रष्टा । हिरण्यगर्भस्तु महाभूतकारण- त्वाभावान्न ब्रह्मा । तथापि स्थूलभूतस्रष्टृत्वेन क्वचिद् ब्रह्मेत्युपचर्य्यते । तथा तम उपहितो रुद्रः संहर्त्ता । एवञ्चैकस्यैव तस्य चतुर्भुजचतुर्मुखाद्याः पुमाकाराः श्री- भारतीभवान्याद्याश्च स्त्र्याकारा मत्स्यकूर्मादयोऽप्यवतारा लीलयैवाविर्भवन्ति । तथा जीवोऽपि त्रिविधः स्वोपाधि- जाग्रदाद्यवस्थात्रयभेदेन विश्वतैजसप्राज्ञभेदात् । तत्रा- विद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदभिमानी विश्वः । स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितः स्वप्नावस्थाभिमानी तैजसः । अयमेव शरीरद्वयान्तःकरणो, षाधिरहितोऽन्तःकरणसंस्कारावच्छिन्नोऽविढ्यामात्रोपहितः सुषुप्त्यवस्थाभिमानी प्राज्ञः । साक्षी तु सर्वानुसन्धाता सर्वानुगतस्तुरीयाख्य एकविध एव । अविद्यातत्कर्मात्मकप्रपञ्चो दृश्यपदार्थः तस्यापारमार्थि- कत्वेऽपि व्यवहारिकत्वाभ्युपगमान्न स्वप्नादिवदतात्त्विक- त्वम् । दृश्योऽपि त्रिविधः अव्याकृतमूर्त्तामूर्त्तभेदात् । तत्र चिदाभाससहिताऽविद्या मूर्त्तामूर्त्तप्रपञ्चस्थूलवीज- शक्तिरनादिरव्याकृतमित्युच्यते । इयञ्चाव्याकृताख्याऽवि- द्येश्वरोपाधिः । सा च स्वयं जडाप्यजडेन चिदाभासे- नोज्वलिता पूर्वपूर्वसंस्कारजीवकर्मभ्यां प्रयुक्ता सती शब्द- स्पर्शरूपरसगन्धाश्रयाण्याकाशवायुतेजोजलपृथिव्यात्म- कानि पञ्च सृक्ष्ममहाभूतानि जनयति । तत्र पूर्वपूर्व- भूतभावापन्नाया एवाविद्याया उत्तरोत्तरभूतं प्रति- कारणत्वात् पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतेष्वनुप्रवेशा- द्भूतानामेकैकवृद्धीभूतगुणशालित्वं तथा चाकाशस्य शब्दो गुणः, वायोः शब्दस्पर्शौ, तेजसः शब्दस्पर्शरूपाणि, जल तानि रसश्च, पृथिव्यास्तानि गन्धश्चेति । आकाशस्यैव दिग्व्यवहारजनकत्वेन दिशो न पृथक् पदार्थता । कामस्य चिज्जडसम्बन्धरूपतया तदाधाराविद्यात्मकतया च म पार्थक्यम् । तानि च सूक्ष्माणि पञ्च भूतानि अमूर्त्ताख्यानि कारणाभेदाच्च सत्त्वरजस्तमोगुणात्मकानि सत्त्वरजोऽं- शप्राधान्येन ज्ञानक्रियाशक्त्यात्मकमेकं स्वच्छद्रव्यं चि- त्ररूपमिव मिलित्वा जनयन्ति । तच्च समस्तं द्रव्यं ज्ञान- शक्तिप्राधान्येऽन्तःकरणं तदपि द्विविधं मगोबुद्धिभेदात्’ चतुर्विधं मनोबुद्ध्यहङ्कारचित्तभेदादित्यन्ये । तदेव क्रि- याशक्तिप्राधान्ये प्राणः । स च पञ्चधा प्राणादिभेदात् । एवमेकैकभूतेभ्योज्ञानक्रियाशक्तिमेदात् प्रत्येकं ज्ञानकर्मे- न्द्रियद्वयं जायते । यथाकाशात् श्रोत्रवाचौ, वायोण्वक् पाणी, तेजसश्चक्षुःपादौ, अद्भ्यो रसनापायू, पृथिव्या ध्राणोपस्थौ चोत्पद्येते । तत्र शब्दस्पर्शरूपरसगन्धग्राह- काणि श्रोत्रत्वक्चक्षुःरसनाघ्राणाख्यागि पञ्च ज्ञानेन्द्रि- याणि वचनादानगतिविसर्गानन्दजनकानि वाक्पाणिपाद- पायूपस्थाख्यानि पञ्च कमेन्द्रियाणि! एतच्च सर्वं मि- सित्वा सप्तदशकं लिङ्गशरीरम् । तच्च ज्ञानशक्तिप्राधान्येन समष्टौ हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन समष्टौ सूत्रमिति चोच्यते । अयं भूर्त्तपदार्थः कार्य्यत्वात् । मुमष्टिव्यष्टिजीवोपाधिसूक्ष्मभूतानि तु भोगायतनं श- रीरं भोग्यविषयञ्चान्तरेण भोगं जनयितुमसमर्थानीति जीवकर्मप्रयक्तानि तानि स्थौल्यार्थं पञ्चोकृतानि म० वन्ति । तथा हि सर्वाणि भूतानि स्वस्वार्द्धांशे स्वेतरभू- तानां चतुर्णामष्टमांशैश्चतुर्भिर्थोजनात् सर्वाण्येव पञ्चात्म- कानि । स्वस्वांशाधिक्याच्चाकाशादिव्यवहारः । तानि च पञ्चीकृतानि महाभूतानि मूर्त्ताख्यानि मिलित्वैकं कार्य्य- मिन्द्रियाणामधिष्ठानं जनयन्ति । तदेव स्थूलशरीर मित्युच्यते । तत्र सत्त्वप्रधानं दैवं शरीरं रजःप्रधानं मानवं तमःप्रधानं तिर्य्यगादिस्थावरान्तानाम् । सर्वेषां देहानां पाञ्चभौतिकत्वेऽपि चित्रे रूपाणामिव भूतानां क्वचिन्न्यूनातिरेको न विरुद्ध्यते । विषया अपिं चतु- र्दशभुवनाख्या षटादयश्च सत्त्वरजस्तमोऽंशतारतम्येन तेभ्य एव भूतेभ्यो जायन्ते । एतच्च सर्वं ब्रह्माण्डं विरा- डिति चोच्यते । सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टि प्रलयवदवास्तवमपि अनादिवासनादार्ढ्यात् व्यवहारक्ष- ममिति मायिकत्वेऽपि न तुच्छत्वप्रसङ्गः” । अन्यदाकरे दृश्यम् ।
शब्दकल्पद्रुमः
वेदान्तः || पुं, (वेदानां अन्तः ।)
उपनिषत् । इति हेमचन्द्रः । वेदव्यासप्रणीतदर्शनशास्त्र- विशेषोऽपि । यथा । वेदान्तो नाम उपनिषत्- प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च । इति परमहंसपरिव्राजकाचार्य्यश्रीसदानन्द- योगीन्द्रविरचितवेदान्तसारः ॥ * ॥
“इदानीं सर्व्वस्यापि वस्तुविचारोद्देशपूर्व्वकत्वात् प्रति- ज्ञातं वेदान्तं नामतो निर्दिशति वेदान्त इति । उपनिषद एव प्रमाणं उपनिषत्-प्रमाणम् । उपनिषदो यत्र प्रमाणमिति वा । तदुपकारीणि वेदान्तवाक्यसंग्राहकाणि शारीरकसूत्रादीनि च । शरीरमेव शारीरं तत्र भवो जीवः शारी- रकः स सूत्र्यते याथातथ्येन निरूप्यते यैः तानि शारीरकसूत्राणि ‘अथातो ब्रह्मजिज्ञासा’ इत्यादीनि । आदिशब्दो भाष्यादिसंग्रहार्थः । चशब्दो वेदान्तशब्दानुषङ्गार्थः । यद्बा शारी- रकसूत्राणि तद्यथार्थवादिवेदान्तार्थसंग्रह- वाक्यानि । ‘अथातो ब्रह्मजिज्ञासा’ इत्यादि- सूत्रादीनि । आदिशब्देन भगवद्गीताद्यध्यात्म- शास्त्राणि गृह्यन्ते । तेषामपि उपनिषच्छब्द- वाच्यत्वादिति भावः ।” इति श्रीनृसिंहसरस्वती- कृता तट्टीका सुबोधनी ॥ अस्य नामान्तरं उत्तरमीमांसा । तत्र चत्वारः अध्यायाः । तेषु ब्रह्मनिरूपणम् । तद्विवरणं यथा, —
“अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः । मायामयी प्रवृत्तिः संह्रियते पुनः पुनः क्रमशः ॥ मायामयोऽप्यचेता गुणकरणगणः करोति कर्म्माणि । तदधिष्ठाता देही सचेतनोऽपि न करोति किञ्चिदपि ॥ यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमति लोहम् । तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥ यद्वत् सवितर्य्युदिते करोति कर्म्माणि जीव- लोकोऽयम् । न च तानि करोति रविर्न कारयति तद्वदा- त्मापि ॥ मनसोऽहंकारविमूर्च्छितस्य चैतन्यबोधिस्येह । पुरुषाभिमानसुखदुःखभावना भवति मूढस्य ॥ कर्त्ता भोक्ता द्रष्टास्मि कर्म्मणामुत्तमादीनाम् । इति तत्स्वभावविमलोऽभिमन्यते सर्व्वगोप्यात्मा ॥ नानाविधवर्णानां वर्णान् धत्ते यथामलस्फटिकः । तद्वदुपाधेर्गुणभावितस्य भावं विभुर्धत्ते ॥ गच्छति गच्छति सलिले दिनकरविम्बं स्थिते स्थितिं याति । अन्तःकरणे गच्छति गच्छत्यात्मापि तद्वदिह ॥ राहुरदृश्योऽपि यथा शशिविम्बस्थः प्रकाशते जगति । सर्व्वगतोऽपि तथात्मा बुद्धिस्थो दृश्यतामेति ॥ आदर्शे मलरहिते यद्वद्रूपं विचिनुते लोकः । आलोकयति तथात्मा विशुद्धबुद्धौ स्वमात्मानम् ॥ सर्व्वगतं तत् निरुपममद्वैतं तच्च चेतसा गम्यम् । यद्वुद्धिगतं ब्रह्मोपलभ्यते शिष्यबोध्यं तत् ॥ बुद्धिमनोऽहंकारास्तन्मात्रेन्द्रियगणाः सभूत- गणाः । संसारसर्गपरिरक्षणक्षमाः प्राकृता हेयाः ॥ धर्म्माधर्म्मौ सुखदःखकल्पना स्वर्गनरकवासश्च । उत्पत्तिनिधनवर्णाश्रमा न सन्तीह परमार्थे ॥ मृगतृष्णायामुदकं शुक्तौ रजतं भुजङ्गमो रज्ज्वाम् । तैमिरिकचन्द्रयुगवत् भ्रान्तं निखिलं जगद्रूपम् ॥ यद्बद्दिनकर एको विभाति सलिलाशयेषु सर्व्वेषु । तद्वत् सकलोपाधिष्ववस्थितो भाति परमात्मा ॥ खमिव घटादिष्वन्तर्ब्बहिःस्थितं ब्रह्म सर्व्व- पिण्डेषु । देहोऽहमित्यनात्मनि बुद्धिः संसारबन्धाय ॥ सर्व्वविकल्पनहीनः शुद्धोऽवृद्धोऽजरोऽमरः शान्तः । अमलः सकृद्विभातश्चेतन आत्मा खवद्व्यापी ॥ रसफाणितशर्करिका गुडखण्डा विकृतयो यथैवेक्षोः । तद्वदवस्थाभेदाः परमात्मन्येव बहुरूपाः ॥ विज्ञानान्तर्यामिप्राणविराट्देहजाति- पिण्डान्ताः । व्यवहारस्थस्यात्मन एतेऽवस्थाविशेषाः स्युः ॥ रज्ज्वां नास्ति भुजङ्गः सर्पभयं भवति हेतुना केन तद्वद्द्वैतविकल्पभ्रान्तिरविद्या न सत्यमिदम् ॥ एतत्तदन्धकारं यदनात्मन्यात्मताभ्रान्त्या । न विदन्ति वासुदेवं सर्व्वात्मानं नरा मूढाः ॥ प्राणाद्यन्तभेदैरात्मानं संवितत्य जालमिव । संहरति वासुदेवः स्वविभूत्या क्रीडमान इव ॥ त्रिभिरेव विश्वतैजसप्राज्ञैस्तैरादिमध्यनिध- नाख्यैः । जाग्रत्स्वप्नसुषुप्तैर्भ्रमभूतैश्छादितं तुर्य्यम् ॥ मोहयतीवात्मानं स्वमायया द्वैतरूपया देवः । उपलभते स्वयमेवं गुहागतं पुरुषमात्मानम् ॥ ज्वलनाद्धूमोद्गतिभिर्विविधाकृतिरम्बरे यथा भाति । तद्वद्विष्णोः सृष्टिः स्वमाययाद्वैतविस्तरो भाति ॥ शान्त इव मनसि शान्ते हृष्टे हृष्ट इव मूढ इव मूढे । व्यवहारस्थो न पुनः परमार्थत ईश्वरो भवति ॥ जलधरधूमोद्गतिभिर्मलिनीक्रियते यथा न गगनतलम् । तद्वत् प्रकृतिविकारैरपरामृष्टः परः पुरुषः ॥ एकस्मिन्नपि च घटे धूमादिमलावृते घटाः शेषाः । न भवन्ति मलोपेता यद्वज्जीवोऽपि तद्बदिह ॥ देहेन्द्रियेषु नियताः कर्म्मगुणाः कुर्व्वते स्वभोगार्थम् । नाहं कर्त्ता न ममेति ज्ञानतः कर्म्म नैव बध्नाति ॥ अन्यशरीरेण कृतं कर्म्म भवे येन देह उत्पन्नः । तदवश्यं भोक्तव्यं भोगादेव क्षयोऽस्य निर्द्दिष्टः ॥ प्राक् ज्ञानोत्पत्तिचितं यत् कर्म्म ज्ञानशिखि- शिखालीढम् । बीजमिव दहनदग्धं जन्मसमर्थं न तद्भवति ॥ ज्ञानोत्पत्तेरूर्द्ध्वं क्रियमाणं कर्म्म यत्तदपि । न श्लिष्यति कर्त्तारं पुष्करपर्णं यथा वारि ॥ वाग्देहमानसैरिह कर्म्मचयः क्रियत इति बुधाः प्राहुः । एकोऽपि नाहमेषां कर्त्ता तत्कर्म्मणामस्मि ॥ कर्म्मफलबीजनाशाज्जन्मविनाशो न चात्र सन्देहः । बुद्धैवमपगततमाः सवितेव विभाति भारूपः ॥ यद्वदिषीकातूलं पवनोद्धूतं दश दिशो याति । ब्रह्मणि तत्त्वज्ञानात्तथैव कर्म्माणि तत्त्वविदः । क्षीरादुद्धृतमाज्यं क्षिप्तं यद्वन्न पूर्ब्बवत्तस्मिन् । प्रकृतिगुणेभ्यस्तद्वत् पृथक्कृतश्चेतनोऽप्यात्मा ॥ गुणामयमायागहनं निर्द्धूय यथा तमः सहस्रांशुः । बाह्याभ्यन्तरचारी सैन्धवघनवत् भवेत् पुरुषः ॥ यद्वद्देहोऽवयवा मृदेव तस्या विकारजातानि । तद्बत् स्थावरजङ्गममद्बैतं द्बैतवद्भाति ॥ एकस्मात् क्षेत्रज्ञाद्बहवः क्षेत्रजातयो जाताः । लौहगतादिव दहनाः समन्ततो विस्फुलिङ्ग- कणाः ॥ ते गुणसङ्गमदोषाद्बद्धा इव धान्यजातयः स्वतुषैः । जन्म लम्भते तावद्यावन्न ज्ञानवह्रिना दग्धाः ॥ त्रिगुणा चैतन्यात्मनि सर्व्वगतेऽवस्थिताखिला- धारे । कुरुते सृष्टिमविद्या सर्व्वत्र स्पृश्यते तया नात्मा ॥ रज्ज्वां भुजङ्गहेतौ प्रभवविनाशौ यथा न स्तः । ज गदुत्पत्तिविनाशौ न च कारणमस्ति तद्व- दिह ॥ जन्मविनाशनगमनागमनमलै सङ्गधर्जितो नित्यम् । आकाश इव घटादिषु सर्व्वात्मा सर्व्वतोपेतः ॥ कर्म्मशुभाशुभजनितैः सुखदुःखैर्बन्धो भवत्युपा- धीनाम् । तत्संसर्गाद्बद्धस्तस्करसङ्गादतस्करवत् ॥ देहगुणकरणगोचरसङ्गात् पुरुषस्य यावदिह भावाः । तावन्मायापाशैः संसारे रुद्ध इव भाति ॥ मातृपितृबान्धवधनभोगसंमूढः । जन्मजरामरणमये चक्र इव भ्राम्यते जन्तुः ॥ लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः । ते जननमरणधर्म्माणो ध्वान्तमत्रेत्य खिद्यन्ते ॥ हिमफेनयुद्वुदा इव जलस्य धूमो यथा वह्नेः । तद्वत स्वभावभूता मायैषा कीर्त्तिता विष्णोः ॥ एवं द्वैतविकल्पां भ्रमस्वरूपां विमोहिनीं मायाम् । उत्सृज्य सकलं निष्फलमद्वैतं भावयेद्ब्रह्म ॥ यद्वत् सलिले सलिलं क्षीरे क्षीरं समीरणे वायुः । तद्वद्ब्रह्मणि विमले भावनया तन्मयत्वमुप- याति ॥ इत्थं द्वैतसमूहे भावनया ब्रह्मभूयमुपयाति । को मोहः कः शोकः सर्व्वं ब्रह्मावलोकयतः ॥ विगतोपाधिस्फटिकः स्वप्रभया भाति निर्म्मलो यद्वत् । चिद्दीपः स्वप्रभया तथा विभातीह निरुपाधिः ॥ गुणकरणगणशरीरप्राणैस्तन्मात्रजातिसुख- दुःखैः । अपरामृष्टो व्यापी चिद्रूपोऽयं सदा विमलः ॥ द्रष्टा श्रोता घ्राता स्पर्शयिता रसयिता ग्रहीता च । देही देहेन्द्रियधीविवर्जितः स्यान्न कर्त्तासौ ॥ एको नैकत्रावस्थितो महैश्वर्य्यं योगतो व्याप्तः । आकाशवदखिलमिदं न कश्चिदप्यत्र सन्देहः ॥ आत्मैवेदं सर्व्वं निष्कलसकलं यदैव भावयति । मोहगहनाद्विमुक्तस्तदैव परमेश्वरीभूतः ॥ यद्यत् सिद्धान्तागमतर्केषु प्रभ्रमन्ति रागान्धाः । अनुमोदामस्तत्तत्तेषां सर्व्वात्मवादिधियाम् ॥ सर्व्वाकारो भगवानुपास्यते येन येन भावेन । तं तं भावं भूत्वा चिन्तामणिवत् समभ्येति ॥ नारायणमात्मानं ज्ञात्वा सर्गस्थितिप्रलयहेतुम् । सर्व्वज्ञः सर्व्वगतः सर्व्वः सर्व्वेश्वरो भवति ॥ आत्मज्ञस्तरति शुचं यस्माद्विद्वान्न बिभेति कुतश्चित् । मृत्योरपि मरणभयं न भवत्यन्यद्भयं कुतस्तस्य ॥ क्षयवृद्धिवध्यघातकबन्धनमोक्षैर्व्विवर्ज्जितं नित्यम् । परमार्थतत्त्वमेतत् यदतोऽन्यत्तदनृतं सर्व्वम् ॥ एवं प्रकृतिपुरुषं विज्ञाय निरस्तकल्पनाजालः । आत्मारामः प्रशमं समास्थितः केवलीभवति ॥ नलकदलिवेणुवाणा नश्यन्ति यथा स्वपुष्प- मासाद्य । तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥ भिन्ने ज्ञानग्रन्थौ छिन्ने संशयगणे शुभाशुभे क्षीणे । दग्धे च जन्मबीजे परमानन्दं हरिं याति ॥ मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमन- मन्यत्र । अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम् ॥ बुद्धैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् । विगतद्वन्द्बोपाधिकभोगासङ्गो भवेच्छान्तः ॥ बुद्धा विभक्तां प्रकृतिं पुरुषः संसारमध्यगो भवति । निर्मुक्तः सर्व्वकर्म्मभिरम्बुजपत्रं यथा सलिलैः ॥ अश्नन् यद्बा तद्बा संवीतो येन केनचिच्छान्तः । यत्र क्वचन च शायी विमुच्यते सर्व्वभूतात्मा ॥ हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघात- लक्षाणि । परमार्थविन्न पुण्यैर्न च पापः स्पृश्यते विमलः ॥ मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवात्- बुद्धिः । निस्तोत्रवषट्कारो जडवद्बिचरेदगाधमतिः ॥ उत्पत्तिनाशवर्ज्जितमेवं परमार्थमुपलभ्य । कृतकृत्यः सफलजनुः सर्व्वगतस्तिष्ठति यथेष्टम् ॥ व्यापिनमभिन्नमित्थं सर्व्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेद स तन्मयो भवति ॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालं मुक्तः कैवल्यं याति हतशोकः ॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधन- गतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किन्तेन ॥ वृक्षाग्राच्च्युतपादो यद्बदनिच्छन्नरः क्षितौ पतति । तद्वदगुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥ परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम । सुरलोकभोगभोगी मुदितमना मोदते सुभृ- शम् ॥ विषयेषु सार्व्वभौमः सर्व्वजनैः पूज्यते यथा राजा । भुवनेषु सर्व्वदेवैर्योगभ्रष्टस्तथा पूज्यः । महता कालेन महान् मानुष्यं प्राप्य योग- मभ्यस्य । प्राप्नोति दिव्यममृतं यत्तत् परमं पदं विष्णोः ॥ वेदान्तशास्त्रमखिलं विलोक्य शेषोऽखिला- धारः । आर्य्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥” इति श्रीशेषनागविरचितं परमार्थसारं समा- प्तम् ॥