वाचस्पत्यम्
वेध || पु० विध—घञ् । (वेँदा) १ वेधने २ उन्माने (चाडा) “परिधिनवमभागः शृकधान्येषु वेधः” इति लीला० । विवाहादौ वर्ज्ये नक्षत्रविशेषस्थितहभेदकृतसंसर्गे च उपयमशब्दे ज्यो० त० च दृश्यम् “वेधं सर्वत्र वर्जयेत्” ।
शब्दकल्पद्रुमः
वेधः || पुं, (विध + घञ् ।)
वेधनम् । वँधा इति भाषा । तत्पर्य्यायः । व्यधः २ । इत्यमरः ॥ (यथा, महाभारते । १२ । १६८ । ३६ । “वाणवेधे परं यत्नमकरोच्चैव गौतमः ॥”)
गभीरता । गहरा इति चाडा इति च भाषा ॥ यथा, —
“गणयित्वा विस्तारं बहुषु स्थानेषु तद्युति- र्भाज्या । स्थानकमित्यासममितिरेवन्दैर्घ्ये च वेधे च ॥ क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यात् ।” इति लीलावत्यां खातव्यवहारः ॥ * ॥
अथ सप्तशलाकवेधः । “कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् । ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥” इति दीपिका ॥ * ॥
अथ खर्ज्जूरवेधः । “एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताः स्थापयेत् रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु । व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैक्यरेखा- स्थयोः सूर्य्याचन्द्रमसोर्मिथो निगदिता दृक्पात एका- र्गलः ॥” इति रत्नमाला ॥ * ॥
अथ युतवेधः ॥ “पापात् सप्तमगः शशी यदि भवेत् पापेन वा संयुतो यत्नात्तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययं कथ्यते ॥” अथ यामित्रवेधः । “रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥” इति रत्नमाला ॥ वामदक्षिणवेधौ वामवेधशब्दे द्रष्टव्यौ ॥