वाचस्पत्यम्
वेधनी || स्त्री विध्यतेऽनया विध—ल्युट् ङीप् । (भोमरी) १ म- णिरत्नादिवेधकारणे अस्त्रभेदे । स्वार्थे क । तत्रार्थे २ मेथिकायां ३ हस्तिकर्णबेधनास्त्रे त्रिकाण्डशेषः ।
शब्दकल्पद्रुमः
वेधनी || स्त्री (विध्यतेऽनयेति । विध + ल्युट् । स्त्रियां ङीष् ।)
हस्तिकर्णवेधनास्त्रम् । इति त्रिकाण्डशेषः ॥ मेथिका । इति भावप्रकाशः ॥