वाचस्पत्यम्
वेन्ना || स्त्री वन—न उपधाया इच्च । नदीभेदे “विनदीं पिञ्जलां वेन्नां(णाम्)तुङ्गवेन्नां(णां) महानदीम्” भा० भी० ९ अ० ।
शब्दकल्पद्रुमः
वेन्ना || स्त्री (वन शब्दे संभक्तौ वा + “वनेरिच्चो- पधायाः ।” उणा० ३ । ८ । इति नः उपधाया इत्वञ्च ।)
नदीविशेषः । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः । (यथा, महाभारते । ३ । ८८ । ३ । “वेन्ना भीमरथी चोभे नद्यौ पापभयापहे ॥”)