शब्दकल्पद्रुमः
वेनः || पुं, (अजतीति । अज गतौ + “धापॄवस्य- ज्यतिभ्यो नः ।” उणा० ३ । ६ । इति नः । अजते- र्वीभावः ।)
प्रजापतिः । इत्युणादिकोषः ॥ (पृथुराजपिता । यथा, मार्कण्डेये । २७ । १५ । “हतमैलं तथा लोभात् मदाद्वेनं द्बिजैर्हतम् ॥” अस्यान्यद्विवरणं मूर्द्धण्यान्तवेणशब्दे द्रष्ट- व्यम् ॥ * ॥
देवविशेषः । इति निघण्टुः । ५ । ४ । २४ ॥ यथा, ऋग्वेदे । १० । १२३ । १ । “अयं वेनश्चोदयन् पृश्निगर्भा ॥” “वेनः कान्तः एतत्संज्ञो मध्यमस्थानो देवः ।” इति तद्भाष्ये सायणः ॥ * ॥
अजति गच्छत्यनेन स्वर्गमिति । यज्ञः । इति निघण्टुः । ३ । १७२ ॥ त्रि, मेधावी । इति निघण्टुः । ३ । १५ । ५ ॥ यथा, वाजसनेयसंहितायाम् । १३ । ३ । “सीमतः सुरुचो वेन आवः ॥” “वेनः कामनीयो मेधावी वा ।” इति तद्भाष्यम् ॥ कामयमानः । यथा, ऋग्वेदे । ८ । ८९ । ५ । “आयन्मा वेना अरुहन्नृतस्य ॥” “वेनाः कामयमानाः ।” इति तद्भाष्ये सायणः ॥)