वेन्ना
वेपथु
वेप
वाचस्पत्यम्
वेप || कम्पने भ्वा० आत्म० सक० सेट् । वेषते अवेपिष्ट । ऋदित् चङि न ह्रस्वः । ष्ट्वित् । वेपथुः ।
शब्दकल्पद्रुमः
वेप || टु ऋ ङ चले । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
चलः कम्पनम् । टु, वेपथुः । ऋ, अविवेपत् । ङ, वेपते वायुना वृक्षः । इति दुर्गादासः ॥