वाचस्पत्यम्
वेपथु || पु० वेप—अथुच् । कम्पे अमरः ।
शब्दकल्पद्रुमः
वेपथुः || पुं, (वेपनमिति । वेप + “ट्वितोऽथुच् ।” ३ । ३ । ८९ । इति अथुच् ।) कम्पः । इत्य- मरः ॥ (यथा, गीतायाम् । १ । २९ । “वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥”)