शब्दकल्पद्रुमः
वेमा || [न्] पुं, (वयत्यनेनेति । वे + “वेञः सर्व्वत्र ।” उणा० ४ । १४९ । इति इमनिन् ।)
वापदण्डः । इत्यमरभरतौ ॥ (यथा, नैषधे । १ । १२ । “सितांशुवर्णैर्व्वयति स्म तद्गुणै- र्म्महासिवेम्नः सहकृत्वरी बहुम् ॥” अर्द्धर्चादित्वात् क्लीवलिङ्गोऽपि । यथा, वाज- सनेयसंहितायाम् । १९ । ८९ । “नग्नहुर्धीरस्तसरं न वेम ॥”)