वाचस्पत्यम्
वेल || कालोपदेशे अ० चु० उ० अक० सेट् । वेलयति ते अविवेसत् त ।
वाचस्पत्यम्
वेल || चालने भ्वा० पर० सक० सेट् । वेलति अवेलीत् । ऋदित् चङि न ह्रस्वः ।
वाचस्पत्यम्
वेल || न० वेल—अच् । १ उपवने हेमच० । २ काले समये ३ मर्य्या- दायां ४ समुद्रकूले च स्त्री “वेलामूले विभावरी परि- हीणा” भट्टिः । ५ होरात्मके कालभेदे “चतुर्विंशति वेलाभिरहोरात्रं प्रचक्षते” अग्निपु० । ६ समुद्रजलवि कारे ७ अक्लिष्टमरणे ८ खगे ९ ईश्वरभोजने च मेदि० अस्योष्ट्यादित्वमित्यन्ये अत्रार्थे ।
शब्दकल्पद्रुमः
वेल || ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
ऋ, अविवेलत् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वेलं || क्ली उपवनम् । यथा, हेमचन्द्रे । “अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने ॥”
शब्दकल्पद्रुमः
वेल || त् क कालार्थे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-अक०-सेट् ।)
कालार्थः कालो- पदेशः । अविवेलत् । कालमियत्तया गणकः एतावती वेलेति कथितवानित्यर्थः । इति दुर्गा- दासः ॥