संस्कृत-शब्दकोशः

वेल वेलाकूल

वेला

शब्दकल्पद्रुमः

वेला || स्त्री (वेल्यतेऽनयेति । वेल + गुरोश्च हलः इत्यः । ततष्टाप् ।)
कालः । तत्पर्य्यायः । समयः २ क्षणः ३ वारः ४ अवसरः ५ प्रस्तावः ६ प्रक्रमः ७ अन्तरम् ८ । इति हेमचन्द्रः ॥ तत्परिमाणानि यथा, —
“अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्त्तितः । द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥ द्बिलवः क्षण इत्युक्तः काष्ठा प्रोक्ता दश क्षणाः । दश काष्ठाः किला नाम तत्संख्या स्याच्च नाडिका ॥ घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् । चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते ॥ सूर्य्योदयादि विज्ञेयो मुहूर्त्तानां क्रमः सदा । पश्विमादर्द्धरात्रादि होराणां विद्यते क्रमः ॥ ज्ञेयं पित्र्यमहोरात्रं पक्षौ कृष्णसितासितौ । त्रिंशता च दिनैर्मासो द्विमास ऋतुरुच्यते । भवेद्दिव्यमहोरात्रं षड्२भिरुत्तरदक्षिणौ । वर्षं द्वादशभिर्मासैर्मलमासस्त्रयोदशः ॥” इति वह्रिपुराणे गणभेदनामाध्यायः ॥ * ॥
मर्य्यादा । इत्यमरः ॥ (यथा, महाभारते । २ । ६३ । ३९ । “धिगस्तु नष्टः खलु भारतानां धर्म्मस्तथा क्षत्रविदाञ्च वृत्तम् । यत्र ह्यतीतां कुरुधर्म्मवेलां प्रेक्षन्ति सर्व्वे कुरवः सभायाम् ॥”)
समुद्रकूलम् । (यथा, रघुः । १ । ३० । “स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्व्वीं शशासैकपुरीमिव ॥”)
समुद्रजलविकारः । (यथा, रघुः । १२ । ३६ । “संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”)
अक्लिष्टमरणम् । रागः । ईश्वरस्य भोजनम् । इति मेदिनी ॥ अत्र पवर्गीयबकारादौ लिखितः । रागस्थाने रोगः । वाक् । बुधस्त्री । इति विश्वः ॥ दन्तमांसम् । इति हारावली ॥



Correction: