संस्कृत-शब्दकोशः

वेलिभुक्प्रिय वेल्लज

वेल्ल

वाचस्पत्यम्

वेल्ल ||‍ चालने भ्वा० पर० सक० सेट् ऋदित् अङि न ह्रस्वः । वेल्लति अवेल्लीत् ।


वाचस्पत्यम्

वेल्ल ||‍ पु० न० वेल्ल—अच् । १ विडङ्गे अमरः । घञ् । २ चलने पु०


शब्दकल्पद्रुमः

वेल्ल || ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
ऋ, अविवेल्लत् । चालः सञ्चलनम् । उद्बेल्लद्भुजवल्लिकङ्कणझनत्कारः क्षणं वार्य्यताम् । गतावित्येके । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वेल्लं || क्ली पुं, (वेल्लतीति । वेल्ल चलने + पचाद्यच् ।)
विडङ्गः । इत्यमरः ॥ (भावे घञ् ।)
गमने, पुं, । इति वेल्लधात्वर्थदर्शनात् ॥



Correction: