संस्कृत-शब्दकोशः

वेवी वेशक

वेश

वाचस्पत्यम्

वेश ||‍ पु० विश—घञ् । अलङ्कारादिना कृतरूपान्तरे १ नेपथ्ये च कर्मणि अमरः । २ वेश्यागृहे ३ गृहमात्रे मेदि० ४ प्रवेशे


शब्दकल्पद्रुमः

वेशः || पुं, (विशन्ति नयनमनांस्यत्रेति । विश् + अधिकरणे घञ् । यद्बा, विशति अङ्गमिति । “पदरुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति घञ् ।)
अलङ्काररचनादिकृतशोभा । तत्पर्य्यायः । आकल्पः २ नेपथ्यम् ३ प्रतिकर्म्म ४ प्रसा- धनम् ५ । इत्यमरः ॥ वेषः ६ । इति तट्टीकायां भरतः ॥ (यथा, भागवते । १ । १७ । ५ । “नरदेवोऽसि वेशेन नटवत् कर्म्मणा द्विजः ॥” * ॥
विशन्ति कामुका यत्रेति । अधिकरणे घञ् ।)
वेश्यागृहम् । गृहमात्रम् । इति मेदिनी ॥ (वस्त्रगृहम् । ताँवु इति भाषा ॥ यथा, महाभारते । ५ । १५१ । ५३ । “शकटापणवेशाश्च यानयुग्यञ्च सर्व्वशः । तत् संगृह्य ययौ राजा ये चापि परिचारकाः ॥”)
प्रवेशः । इति विशधात्वर्थदर्शनात् ॥ (पण्य- स्त्रिया भृतिः । यथा, मनुः । ४ । ८४ — ८५ । “न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥”)



Correction: