संस्कृत-शब्दकोशः

वेशदान वेशन्त

वेशधारिन्

वाचस्पत्यम्

वेशधारिन् ||‍ पु० वेशं धारयति धृ—णिनि । छलेन रूपान्त- रधारिणि १ छद्मतपस्विप्रभृतौ शब्दच० । २ वेशकारके नटादौ च ।


शब्दकल्पद्रुमः

वेशधारी || [न्] पुं, (वेशं तापसलिङ्गं धरतीति । धृ + णिनिः ।)
छलतपस्वी । इति शब्दरत्ना- वली ॥ (सङ्करजातिविशेषः । यथा, ब्रह्म- वैवर्त्ते ब्रह्मखण्डे । १० अध्यायः । “गङ्गापुत्त्रस्य कन्यायां वीर्य्येण वेशधारिणः । बभूव वेशधारी च पुत्त्रो युङ्गी प्रकीर्त्तितः ॥”)
वेशधारके, त्रि ॥



Correction: