शब्दकल्पद्रुमः
वेश्मनकुलः || पुं, (वेश्मनो गृहस्य नकुलः ।) गन्ध- मूषिकः । यथा, — “चिक्कः स्याद्बे श्मनकुलश्चिक्का च बालमूषिका । गन्धसूयी गन्धमूषी गिरिका स्याच्छुछुन्दरी ॥” इति शब्दरत्नावली ॥