संस्कृत-शब्दकोशः

वेश्वर वेषण

वेष

वाचस्पत्यम्

वेष ||‍ पु० विष—अच् घञ् वा । भूषणादिना १ रूपान्तरकरणे २ वेश्याजनालये च भरतः ।


शब्दकल्पद्रुमः

वेषः || पुं, वेवेष्टि व्याप्नोति अङ्गं वेषः पचादित्वादन् मूर्द्धन्यान्तः । विशन्ति नयनमनांस्यत्रेत्याधारे घञि वेशस्तालव्यान्तश्च । इति भरतः ॥ नेप- थ्यम् । (यथा, मनुः । ८ । २ । “विनीतवेषाभरणः पश्येत्कार्य्याणि कार्य्यि- णाम् ॥”)
वेश्याजनाश्रयः । “द्वे दारिकाणां निवासस्थाने । विशति यूनां मनः कामुको वा वेशः शौ विश प्रवेशे घञ् । ‘नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च ।’ इति तालव्यान्ते रभसः ॥ ‘गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः । तालव्यो मूर्द्धन्योऽलङ्करणे कथित आचार्य्यैः ॥’ इत्युष्मविवेकः । वेविषति व्याप्नुवन्ति जनमनांसीति धञि वेषो मूर्द्धन्यान्तोऽपि इत्येके तत्तु न हृद्यं मूर्द्धन्यान्तेषु सर्व्वत्र कोषादावनुपात्तत्वादिति मुकुटः ।” इति च भरतः ॥ (संस्थानविशेषः । यथा, रामा- यणे । १ । १७ । १९ । “यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥” “वेषः संस्थानविशेषः ।” इति तट्टिका ॥ * ॥
वेवेष्टि व्याप्नोति कर्त्तॄनिति । पचाद्यच् । कर्म्म । इति निघण्टः । २ । १ ॥ * ॥
विष व्याप्तौ + घञ् । व्याप्तिः । यथा, वाजसनेयसंहितायाम् १ । ६ । “कर्म्मणे वां वेषाय वाम् ।” “वेषायच । विषॢ व्याप्तौ । घञ् वेषो व्याप्तिः । सूचितकर्म्मसु व्याप्त्यर्थं च वां युवामह- माददे ।” इति तद्भाष्ये महीधरः ॥)



Correction: