संस्कृत-शब्दकोशः

वेष वेषणा

वेषण

वाचस्पत्यम्

वेषण ||‍ पु० विष—करणे ल्युट् । १ कासमर्दे (कालकासुन्दे) हारा० । २ धन्याकवृक्षे स्त्री रत्नमा० ।


शब्दकल्पद्रुमः

वेषणः || पुं, (विष व्याप्तौ + ल्युः ।)
कासमर्द्दः । इति हारावली ॥ (क्ली, विष + ल्युट् ।)
प्रवेषणञ्च ॥ (परिचर्य्या । यथा, ऋग्वेदे । ५ । ७ । ५ । “अवस्मयस्य वेषणे स्वेदं पथिषु जुह्वति ॥” “यस्याग्नेर्वेषणे परिचर्य्यायाम् ।” इति तद्वाष्ये सायणः ॥)



Correction: