संस्कृत-शब्दकोशः

वेस वेसर

वेसन

वाचस्पत्यम्

वेसन ||‍ न० वेस—ल्युट् । “दालयश्चणकानान्तु निस्तुषा यन्त्र- पेषिताः । तच्चूर्णं वेसनं प्रोक्तम्” इत्युक्ते १ चण- कादिद्विदलचूर्णे २ गमने च ।


शब्दकल्पद्रुमः

वेसनं || क्ली (वेस + ल्युट् ।)
द्बिदलचूर्णम् । यथा, —
“दालयश्चणकानान्तु निस्तुषा यन्त्रपेषिताः । तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः ॥” तद्वटिकागुणाः । “वटिका वेसनस्यापि क्वथितायां निमज्जति । रुव्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता ॥” इति भावप्रकाशः ॥



Correction: