वाचस्पत्यम्
वेसवार || पु० वेसं वारयति वृ—अच् । (वाटना) पिष्टधन्या- कसर्षपादौ अमरः । “निरस्थि पिशितं पिष्टं सिद्धं गुड- घृतान्वितम् । कृष्णमरिचसंयुक्तं वेसवार इति स्मृतम्” इत्युक्ते २ भक्ष्यभेदे अस्य गुणाः “वेसवारो गुरुः स्निग्धो बलोपचयवर्द्धनंः” राजवल्लभः । अस्य शमध्यत्वं षमध्यत्वं वा रायमुकुट आह ।
शब्दकल्पद्रुमः
वेसवारः || पुं, धन्याकसर्षपादिपिष्टः । वेसार इति वाटना इति च ख्यातः । तत्पर्य्यायः । उप- स्करः २ । इत्यमरः । वेषवारः ३ । इति भरतः ॥ वेशवारः ४ । इति मुकुटः ॥ (यथा, सुश्रुते । १ । ४६ । “मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः । वेसवारैः सपिशितैः सम्पूर्णा गुरुवृंहणाः ॥”)
व्यञ्जनविशेषः । यथा, —
“निरस्थि पिशितं पिष्टं सिद्धं गुडघृतान्वितम् । कृष्णामरिचसंयुक्तं वेसवार इति स्मृतम् ॥” अस्य गुणाः । “वेसवारो गुरुः स्निग्धो बलोपचयवर्द्धनः ॥” इति राजवल्लभः ॥ हिङ्ग्वार्द्रकमरीचजीरकहरिद्राधन्याकाः क्रमेण द्बिगुणपरिमाणेनैकत्रीकृताः । इति पाकराजे- श्वरे पाकपरिभाषा ॥