संस्कृत-शब्दकोशः

वेह वेहार

वेहत्

वाचस्पत्यम्

वेहत् ||‍ स्त्री वि + हन अति नलापः । गर्भोपघातिन्यां स्त्रि- याम् अमरः । जात्मा समासे परनि० । गोवेहत् सि० कौ०


शब्दकल्पद्रुमः

वेहत् || स्त्री (विशेषेण हन्ति गर्भमिति । वि + हन + “संश्चत्तृपद्वेहत् ।” उणा० २ । ८५ । इति अतिप्रत्य- येन निपातनात् साधुः ।)
गर्भोपघातिनी गौः । इत्यमरः ॥ अनृतौ वृषोपगमनादिवशात् यस्या गर्भपातो भवति सा । विहन्ति गर्भं शश्वत् वेहत् । हन लौ गतौ वधे क्विप् निपातः । इति भरतः ॥ (यथा, वाजसनेयसंहितायाम् । १८ । २७ । “वशा च मे ऋषभश्च मे वेहच्चमेऽनड्वांश्च मे ॥”)



Correction: