संस्कृत-शब्दकोशः

वैकक्षक वैकटिक

वैकङ्कत

वाचस्पत्यम्

वैकङ्कत ||‍ पु० विकङ्कत + स्वार्थेऽण् । (वैँचि) १ वृक्षभेदे । तस्ये- दमण् । २ विकङ्कतसम्बन्धिनि त्रि० ।


शब्दकल्पद्रुमः

वैकङ्कतः || पुं, (विकङ्कत एव । स्वार्थे अण् ।)
वृक्षविशेषः । वैँच् इति भाषा । तत्पर्य्यायः । वृतिङ्करः २ श्रुवावृक्षः ३ ग्रन्थिलः ४ स्वादु- कण्टकः ५ व्याघ्रपात् ६ कण्टिकारी ७ विक- ङ्कतः ८ । इति शब्दरत्नावली ॥ (विकङ्क- तस्यावयवो विकारो वा । “पलाशादिभ्यो वा ।” ४ । ३ । १४१ । इत्यञ् । विकङ्कत- निर्म्मितस्रुवादौ, त्रि । यथा, शतपथब्राह्मणे । ५ । २ । ३ । १५ । “स पालाशे वा स्रुवे वैकङ्कते वा ॥”)



Correction: