संस्कृत-शब्दकोशः

वैकटिक वैकल्पिक

वैकर्ण

शब्दकल्पद्रुमः

वैकर्णः || पुं, (विकर्णस्यापत्यमिति । विकर्ण + “विकर्णशुङ्गच्छगलात् वत्सभरद्वाजात्रिषु ।” ४ । १ । ११७ । इत्यण् ।)
वात्स्यमुनिः । इति सिद्धान्तकौमुदी ॥ (जनपदविशेषः । यथा, ऋग्वेदे । ७ । १८ । ११ । “वैकर्णयोर्जनान्राजा न्यस्तः ।” “वैकर्णयोर्जनपदयोर्विद्यमानान् ।” इति तद्भाष्ये सायणः ॥)



Correction: