संस्कृत-शब्दकोशः

वैकल्य वैकृत

वैकुण्ठ

वाचस्पत्यम्

वैकुण्ठ ||‍ पु० विकुण्ठायां भवः अण् विविधा कुण्ठा माया यस्य स्वार्थेऽण्वा । १ विष्णौ २ इन्द्रे मेदि० । ३ सितार्जके राजनि० “चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्टाया- मसौ जज्ञे दैवतैः सह” विष्णुपु० “विविधा कुण्ठा गतेः प्रतिहतिस्तस्याः कर्त्ता इति वैकुण्ठः । जगदारम्भे विशिष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं प्रत्य- बघ्नादिति वा वैकुण्ठः । “माया संश्लेषिताभूमिरद्भि- र्व्योम्ना च वायुना । वायुश्च तेजसा सार्द्धं बैकुण्ठत्वं ततो मम” भा० शान्तिप० । विष्णुस० भा० । “कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या । विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम् । गुणाश्रयेन भगवान् तस्यां जातः स्वसृष्टये । परिपूर्णतमं तेन वैकण्ठञ्च विदु- र्बुधाः” । ४ विष्णुधामभेदे “उपरिष्टात् क्षितेरष्टौ को- ठयः सत्यमीरितम् । सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः । भूर्लोकात् परिसंख्यातः कोटिरष्टादश प्रभो! । यत्रास्ते श्रीपतिः साक्षात् सर्वेषामभयप्रदः” पद्मपु० स्व० ६ अ० ।


शब्दकल्पद्रुमः

वैकुण्ठः || पुं, कृष्णः । (यथा, भागवते । १ । १५ । ४६ । “ते साधुकृतसर्व्वार्था ज्ञात्वात्यन्तिकमात्मनः । मनसा धारयमासुर्वैकुण्ठचरणाम्बुजम् ॥”)
इन्द्रः । इति मेदिनी ॥ सितार्जकः । इति राज- निर्घण्टः । अस्य व्युत्पत्तिर्यथा । “विकुण्ठाया अपत्यं वैकुण्ठः बाह्वाद्यत इति शिवादित्वात् ष्णः । ‘चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठे दैवतैः सह ॥’ इति विष्णुपुराणम् ॥ किंवा कुण्ठत्यनया कुण्ठा माया । कुठि खोटन- वैकल्यालस्ये सेमक्तात् सरोरिति अः । विविधा कुण्ठा माया विद्यतेऽस्य वैकुण्ठः विकारसंघेति अस्त्यर्थे ष्णः । विष्णुसहस्रनामटीकायां शङ्करा- चार्य्यस्त्वाह विविधा कुण्ठा गतेः प्रतिहति- स्तस्याः कर्त्ता इति वैकुण्ठः । जगदारम्भे विशि- ष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं प्रत्यबध्नादिति वा वैकुण्ठः । ‘मायासंश्लेषिता भूमिरद्भिर्व्योम्ना च वायुना । वायुश्च तेजसा सार्द्धं वैकुण्ठत्वं ततो मम ॥’ इति शान्तिपर्व्वणीति ।” इत्यमरटीकायां भरतः ॥ * ॥
अपि च । “कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या । विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम् ॥ गुणाश्रयेण भगवान् तस्यां जातः स्वसृष्टये । परिपूर्णतमं तेन वैकुण्ठञ्च विदुर्ब्बुधाः ॥” * ॥
अस्य नाम्नो माहात्म्यम् । यथा, —
“राम नारायणानन्त मुकुन्द मधुसूदन । कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ॥ इत्येकादश नामानि पठेद्वा पाठयेद्यदि । जन्मकोटिसहस्राणां पातकादवमुच्यते ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ “साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥” इति श्रीभागवते अजामिलोपाख्यानाध्यायः ॥ * विष्णुधामविशेषः । तद्वर्णनं यथा, —
“उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् । सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः ॥ भूर्लोकात् परिसंख्यातः कोटिरष्टादश प्रभो । यत्रास्ते श्रीपतिः साक्षात् सर्व्वेषामभयप्रदः ॥ वैकुण्ठादुत्तरे शैवो लोकः षोडशकोटयः । तिर्य्यगेव महाराज कैलासाख्यस्तु पर्व्वतः । पार्व्वत्या सहितः शम्भुर्यत्रास्ते स्वगणैर्व्वृतः ॥” इति पाद्मे स्वर्गखण्डे ६ अध्यायः ॥ * ॥
अपि च । “अमृतं शाश्वतं नित्यमनन्तं परमं पदम् । हिरण्मयं मोक्षप्रदं ब्रह्मानन्दसुखाह्वयम् ॥ एवमादिगुणोपेतं तद्विष्णोः परमं पदम् । यद्गत्वा न निवर्त्तन्ते तद्धाम परमं हरेः ॥ नहि वर्णयितुं शक्यं कल्पकोटिशतैरपि । अपि द्रष्टुमशक्यं तद्ब्रह्मरुद्रादिदैवतैः ॥ ज्ञानेन शास्त्रमार्गेण द्रक्ष्यते योगिपुङ्गवैः । तत् स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ॥ श्रीशाङ्घ्रिभक्तिसेवैकरसाभोगविवर्ज्जिताः । महात्मानो महाभागा भगवत्पदसेवकाः ॥ तद्विष्णोः परमं धाम यान्ति ब्रह्मसुखप्रदम् । नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ॥ प्राकारैश्च विमानैश्च सौधै रत्नमयैर्युतम् । तन्मध्ये नगरी दिव्या सायोध्येति प्रकीर्त्तिता ॥ चतुर्द्वारसमायुक्ता हेमगोपुरसंयुता । चण्डादिद्वारपालैस्तु कुमुदाद्यैः सुरक्षिता ॥ चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रमुभद्रकौ । वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ॥ कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः । शङ्कुकर्णः सर्व्वनिद्रः सुमुखः सुप्रतिष्ठितः ॥ तस्मिन् बन्धविनिर्मुक्ताः प्राप्यन्ते सुसुखं पदम् । यं प्राप्य न निवर्त्तन्ते तस्मान्मोक्ष उदाहृतः ॥ मोक्षं परं पदं लिङ्गममृतं विष्णुमन्दिरम् । अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् ॥ नित्यञ्च परमव्योम सर्व्वोत्कृष्टं सनातनम् । पर्य्यायवाचकान्यस्य परं धाम्नोऽच्युतस्य हि ॥” इति पाद्मे उत्तरखण्डे २९ अध्यायः ॥ * ॥
अन्यच्च । “अन्तःपुरनिवासिन्यः सर्व्वलक्षणभूषिताः । ताभिः परिवृतो देवः शुशुमे परमः पुमान् ॥ एवं वैकुण्ठनाथोऽसौ नाथते परमे पदे । तद्व्यूहभेदाल्लोकांश्च वक्ष्यामि गिरिजे शुभे ॥ प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम् । आग्नेय्यां लक्ष्मीलोकस्तु याम्यां सङ्कर्षणालयः ॥ सारस्वतन्तु नैरृत्यां प्राद्युम्नः पश्चिमे तथा । रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ॥ ऐशान्यां शान्तिलोकः स्यात् प्रथमावरणं स्मृतम् । १ । केशवकीर्त्त्यादिलोका द्बितीयावरणं तथा ॥ २ ॥ मत्स्यकूर्म्मादिलोकस्तु तृतीयावरणं परम् । ३ । सत्ययुतानन्ददुर्गाविष्वक्सेनगजाननाः ॥ शङ्खपद्मनिधीलोकाश्चतुर्थावरणं स्मृतम् । ४ । ऋग्यजुः सामाथर्व्वाणो लोकादिषु महत्सु च ॥ सावित्र्या विहगेशस्य धर्म्मस्य च सुखस्य च । पञ्चमावरणं प्रोक्तमक्षयं सर्व्ववाङ्मयम् ॥ ५ ॥ शङ्खचक्रगदापद्मखड्गशार्ङ्गहलं तथा । मौषलञ्च तथा लोकाः सर्व्वशस्त्रास्त्रसंयुताः ॥ षष्ठमावरणं प्रोक्तं शस्त्रास्त्रमयमक्षयम् । ६ । ऐन्द्रपावकयाम्यञ्च नैरृतं वरुणं तथा ॥ वायव्यं सौम्यमैशानं तप्तमं मुनिभिः स्मृतम् । साध्या मरुद्गणाश्चैव ये चान्ये च दिवौकसः ॥ नित्याः सर्व्वे परे धाम्नि विश्वेदेवास्तथैव च । ते वै प्राकृतनाकेऽस्मिन्न नित्यास्त्रिदिवेश्वराः ॥ तेनाहं वच्मि माये न सञ्चिन्त्य इति वै स्मृतिः । एवं परं पदैर्नित्यैर्युक्तैर्भोगपरायणैः ॥ दिव्याभिर्महिषीभिश्च राजते विष्णुरीश्वरि । न तद्भासयते सूर्य्यो न शशाङ्को न पावकः ॥ यद्गत्वा न निवर्त्तन्ते योगिनः शंसितव्रताः । द्वयैकमन्त्रनिष्ठा ये ते वै यान्ति तदव्ययम् ॥ न वेदयज्ञाध्ययनैर्न वेदैर्न व्रतैः शुभैः । न तपोभिर्निराहारैर्न च साधनकर्म्मभिः ॥ एकेन द्बयमन्त्रेण तथा भक्त्या त्वनन्यया । तद्गम्यं शाश्वतं दिव्यं प्रपद्ये वै सनातनम् ॥” इति पाद्मोत्तरखण्डे ३० अध्यायः ॥ (तत्रस्थदेवगणे, पुं भूम्नि । यथा, भागवते । ८ । ५ । ४ । “पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञेवैकुण्ठो भगवान् स्वयम् ॥”)



Correction: