वैकालिक
वैकुण्ठचतुर्दशी
वैकुण्ठ
वैकुण्ठः (पुंलिङ्ग)
निष्पत्ति− "अण्" (वा० ५-२-१०३) । "अण्" (४-३-१२०) । "अण्" (४-१-११२)
व्युत्पत्ति− विगता कुण्ठा नाशोऽस्य विकुण्ठं ज्ञानं स्थानं चास्ति स्वरूपत्वेनाश्रयत्वेन वास्य । विकुण्ठानां जीवनामयं नियन्ता ज्ञानदो वा । विकुण्ठाया अपत्यम् । कुठि (प्रतिघाते) स चात्र संश्लेषणविघातः, स च विगतो येषां ते विकुण्ठाः, तेषामयम् वैकुण्ठः इति वा ।
प्रयोग− १) "चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामयं जज्ञे वैकुण्ठे दैवतैः सह ॥" २) "विलग्नदैत्येश्वरशोणितानां वैकुण्ठकेयूरजुषां मणीनाम्" ३) "मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना । वायुश्चतेजसा सार्धं वैकुण्ठत्वं ततो मम ॥"
उल्लेख− विष्णूपु०, याद० १८-३०, भा० शान्ति०
अर्थ−
१. इन्द्र,
२. विष्णु,
३. विष्णुलोक,
४. सेतो तुलसी ।