वाचस्पत्यम्
वैकृत || न० विकृतस्य भावः अण् । १ विकारे २ वीभत्सरसे तदा लम्बनमांसशोणितादौ विकृतित आगतः अण् । ३ वि- कृतितो जाते त्रि० “वैकृतास्तु तथा देवाः” ।
शब्दकल्पद्रुमः
वैकृतं || क्ली (विकृतमेव । “सान्नायानुजेति ।” ५ । ४ । ३६ । इत्यस्य वार्त्तिकोक्त्या अण् । विकारः । यथा, रामायणे । ६ । ४८ । ३२ । “प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥” दुर्निमित्तम् । यथा, रघुः । ११ । ६२ । “तत्प्रतीपपवनादिवैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् ॥” तथाच महाभारते । ३ । १३७ । ३ । “वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः । तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥”)
वीभत्सरसः । तदालम्बने मांसशोणितादौ, त्रि । इत्यमरटीकायां भरतः ॥ तथाच । “विकृतं वैकृतञ्च स्यात्तच्च वैकृत्यमुच्यते ॥” इति भरतद्बिरूपकोषः ॥ (विकारजाते । यथा, भागवते । २ । १० । ४५ । “अयन्तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥”)