वैचित्र्य
वैजयन्त
वैजनन
शब्दकल्पद्रुमः
वैजननः || पुं, (विजायतेऽस्मिन्निति । जन् + आधारे ल्युट् । ततः स्वार्थे अण् ।)
प्रसव- मासः । तत्पर्य्यायः । सूतिमासः २ । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । १ । ७४ । “अथ वैजनने मासि सा देवी दिव्यलक्षणम् । निर्दग्धस्यान्वयतरोरङ्कुरं सुषुवे सुतम् ॥”)