शब्दकल्पद्रुमः
वैजयिकं || त्रि (विजयस्य निमित्तं विजयिना संयोग इति वा । विजय + “तस्य निमित्तमिति ।” ५ । १ । ३८ । इति ठञ् ।) विजयसम्बन्धि । इति सिद्धान्तकौमुदी ॥ (यथा, हरिवंशे । २४२ । ३१ । “रणे प्रवेशसदृशं कर्म्म वैजयिकं कृतम् ॥”)